Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

International Journal of Sanskrit Research

2024, Vol. 10, Issue 6, Part B

महाभारते प्रतिफलितं सांख्ययोगम् अभिन्नम् एकं समीक्षणम्

सुप्रिय प्रामाणिकः

सांख्यदर्शनं योगदर्शनञ्च समानतन्त्रम् इति कथ्यते । समानतन्त्रस्य अर्थः येषां सिद्धान्तानि समरूपाणि । यद्यपि सांख्ययोगयो र्मध्ये ईश्वरविषये पार्थक्यमस्ति । सांख्ये ईश्वरः न स्वीकृतः योगे तु ईश्वरस्यास्तित्वं स्वीकृतम् । अतः महाभारते प्रतिफलितयोः सांख्ययोगयो र्मध्ये भेदमस्ति न वेति प्रसङ्गेऽस्मिन् प्रबन्धे चर्चा क्रियते । महाभारते सांख्यं योगञ्च वैदान्तिकशैल्यालोचितम् । स्थलविशेषेषु महाभारतकारेण कानिचन सिद्धान्तान्युत्थापितानि, तेभ्यः सिद्धान्तेभ्यः एवं प्रतीयते सांख्यं योगञ्च अवश्यमेव पृथकम् । टीकाटीप्पनीयोगआलोचनातः तु इदं ज्ञायते महाभारतकारेण सांख्ययोगयोः एकत्वं समर्थयति । महाभारतस्य सभापर्वणि यथा देवर्षिनारदस्य विशेषणम् अस्ति ‘सांख्ययोगविभागज्ञो’ । अस्य शब्दस्य अर्थः यः सांख्यस्य योगस्य च विभागविषये ज्ञानवान् । सांख्ययोगयोः एकत्वं चेत् महाभारतस्य काम्यं भवति तर्हि कथं तेन इदं उक्तम् ? प्रसङ्गे अस्मिन् उच्यते अत्र ‘विभागः’ इत्यनेन शब्देन उपयोगः वोध्यते । मोक्षे सांख्स्य योगस्य च किम् उपयोगम् अस्ति यः जानाति सः एव सांख्ययोगविभागज्ञः। आत्मज्ञानप्राप्तये सांख्यः बहिरङ्गसाधनं योगश्च अन्तरङ्गसाधनम् । आत्मज्ञानलाभे न केवलं सांख्यज्ञानस्य योगस्यापि प्रयोजनमस्ति । “यदेव योगाः पश्यन्ति सांख्यैस्तदनुगम्यते । एकः सांख्यञ्च योगञ् यः पश्यति स बुद्धिमान् ।।” (शान्तिपर्वणि 297/19) – इति महाभारतवाक्यतः अपि सांख्ययोगयोः ऐक्यं प्रदर्शितम् । पुनः श्रीमद्भगवद्गीतातः अपि ज्ञायते सांख्ययोगयोः भेदः नास्ति । अत उच्यते – “ सांख्ययोगौ पृथग्वालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयो विन्दतेफलम् ।। ” (श्रीमद्भगवद्गीता 5/4)
Pages : 67-69 | 72 Views | 33 Downloads


International Journal of Sanskrit Research
How to cite this article:
सुप्रिय प्रामाणिकः. महाभारते प्रतिफलितं सांख्ययोगम् अभिन्नम् एकं समीक्षणम्. Int J Sanskrit Res 2024;10(6):67-69. DOI: 10.22271/23947519.2024.v10.i6b.2516

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.