International Journal of Sanskrit Research
2024, Vol. 10, Issue 5, Part C
वेदाङ्गेषु निरुक्तस्य महत्त्वम्
सौ. वैशाली निशान्त: गौरशेट्टीवार, डॉ. शुचिता लालचन्द: दलाल:
‘वेदोऽखिलो धर्ममूलम्’ इति मनुस्मृतिग्रन्थे वेदस्य महत्ता अवर्णयत्। भारतीयसंस्कृत्या: अध्ययने वेदानां स्थानं सर्वोपरी वर्तते। भारतीय: संस्कृत्या: सभ्यताया: च यथार्थचित्रणं वैदिकसाहित्ये एव दृश्यते। वेदाध्ययन-विषये निरुक्तकार: यास्काचार्येण अकथयत् – य: अर्थज्ञानेन विना वेदाध्ययनं करोति स: स्थाणुमिव भारहार: पशु: भवति । अत: वेदाध्ययनार्थं वेदपदानाम् अर्थज्ञानम् आवश्यकम् । शब्दस्य निर्वचनं व्याकरणद्वारा जायते किन्तु शब्दार्थानां विवेचनं निरुक्तेन ज्ञायते। अत: वेदार्थस्य ज्ञानार्थं निरुक्तस्य ज्ञानम् अतीव आवश्यकम् । निरुक्तं व्याकरणशास्त्रस्य अपि पूरक: वर्तते। वैदिक: क्लिष्टशब्दानां सङ्कलनं ‘निघण्टु’ ग्रन्थे वर्तन्ते। तेषु क्लिष्टशब्दानां निरुक्ति: निरुक्तग्रन्थे विद्यन्ते। ‘निरुक्ति’ शब्दस्य अर्थ: ‘व्युत्पत्ति:’। निरुक्तस्य अध्ययनेन किं साध्यं भवति?, निरुक्तस्य विषय: क: ?, निरुक्ते किं वर्तते? एतद् विषये ज्ञातुं एतद् अध्ययनम् ।
How to cite this article:
सौ. वैशाली निशान्त: गौरशेट्टीवार, डॉ. शुचिता लालचन्द: दलाल:. वेदाङ्गेषु निरुक्तस्य महत्त्वम्. Int J Sanskrit Res 2024;10(5):138-141.