Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Peer Reviewed Journal

International Journal of Sanskrit Research

2024, Vol. 10, Issue 5, Part B

आचार्यमम्मटः काव्यप्रकाशश्च- एका समीक्षा

डा. नीलाम्बरबाघः

आचार्यमम्मटेन रचितः काव्यप्रकाशः साहित्यस्य आकरग्रन्थोऽस्ति, सत्सु अनेकेषु अलङ्कारग्रन्थेषु ग्रन्थोऽयं प्रामाणिकः इति मन्यते । अत्र काव्ये अपेक्षितानां सर्वेषामपि विषयाणां मीमांसा कृता वर्त्तते । मम्मटः अत्र स्वल्पाक्षरैः वहुप्रतिपाद्यविषयान् उपस्थापयति । तस्य प्रत्येकं वर्णस्यापि तात्पर्यविषयमनुभवन्ति विद्वांसः । अत्र प्रतिपादिताः काव्यशास्त्रीयविषयाः अत्यन्तगम्भीरा, युक्तियुक्ता, परमप्रामाणिकाश्च । अस्य ग्रन्थस्य शताधिकाः टीकाः दृश्यन्ते । अतः प्रसिद्धमिदं वाक्यम्-“काव्यप्रकाशस्य कृता गृहे गृहे टीकास्तथाप्येषः दुर्गमः ” इति । अस्मिन् ग्रन्थे काव्यविषयकं समेषां तत्वानां समावेशः दृश्यते । स्वल्पाक्षरैः बहुप्रतिपाद्यविषयाः दृश्यन्ते। वहूनां नवीनसिद्धान्तानां समुदायः अत्र दृश्यते । विषयप्रतिपादने च एषः ग्रन्थः प्रौढः वर्त्तते । अस्मिन् १० उल्लासाः, १४२ कारिकाः, २११/२१२ सूत्राणि तथा ६०३ उदाहरणानि सन्निवेशितानि । १०४५५ संख्यकाः ध्वनिकाव्यप्रभेदाः, ४५१५८४ संख्यकाः गुणीभूतव्यङ्ग्याः, माधुर्य-ओज-प्रसादश्चेति गुणत्रयम्, वैदर्भी-गौडी-पाञ्चालीति रीतित्रयम्, ७० दोषाः, ०६ शब्दालङ्काराः, ६१ अर्थालङ्काराश्च निरूपिताः ।
Pages : 91-93 | 190 Views | 90 Downloads


International Journal of Sanskrit Research
How to cite this article:
डा. नीलाम्बरबाघः. आचार्यमम्मटः काव्यप्रकाशश्च- एका समीक्षा. Int J Sanskrit Res 2024;10(5):91-93.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.