Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

International Journal of Sanskrit Research

2024, Vol. 10, Issue 5, Part B

मुद्राराक्षसम्- एकमनुशीलनम्

डॉ. नीलाम्बरबाघः

नाटककारेण विशाखदत्तेन प्रणीतं “मुद्राराक्षसम्” इति नाटकमेकमद्भूतं निर्माणम् । यद्यपि विषयेऽस्मिन् विदुषां दृष्टिकोणः परस्परं भिन्नः एव तथापि तस्मिन् नाटके विद्यमानाः केचित् अंशाः एतादृशाः सन्ति, ये खलु विद्वत्तल्लजानां मनांसि आकर्षयन्ति । एषः विशाखदत्तः मुद्राराक्षसम् इति नाटकं रचयित्वा नाट्यजगत् प्रति एकां नवीनां शैलीं प्रदत्तवान् । विषयेऽस्मिन् न कापि विप्रतिपत्तिः । एषः नाटककारः निरसं वस्तुविशेषं स्वीकृत्य तस्मिन् सरसवस्तु आविर्भावयति । एतदेव लेखकस्य प्रवीणतायाः बोधकः । लेखकः तादृशं कथावस्तु नाटके स्वीकरोति यत्र सरसतायाः सर्वथा अभावः दृश्यते । ऐतिहासिकैतिवृत्तत्वात् कविः कल्पनाकाशे उड्डयनं कर्तुं न शक्नोति । एतत् सत्यं यत् – अत्र न महाकविकालिदासस्य सरसकल्पना, न वा भवभूतेः पाषाणरोदनमिव करुणरसः, न च शुद्रकस्य जनसामान्ययोग्यः चञ्चलः व्यङ्ग्यरचना न वा भट्ट्नारायणस्यैव रणहुङ्कारस्य ध्वनिः । विशाखदत्तस्य पार्श्वे न नायिकायाः सौन्दर्यं न च प्रकृतेः कमनीयता, न वा युद्धस्य कृते युद्धक्षेत्रं, तथापि केवलं नाट्यप्रणयनकौशलमात्रेण सहृदयान् आकर्षयितुं उद्योतः सन् पूर्णरूपेण सफलो भवति ।
Pages : 73-75 | 133 Views | 54 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. नीलाम्बरबाघः. मुद्राराक्षसम्- एकमनुशीलनम्. Int J Sanskrit Res 2024;10(5):73-75.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.