International Journal of Sanskrit Research
2024, Vol. 10, Issue 5, Part B
भार्गवीये महाकाव्ये कृदन्त-अनुप्रयोगसमीक्षणम्
उमा शर्मा, लक्ष्मण सिहं:
संस्कृतव्याकरणे कृत्प्रत्ययस्य मुख्यतया कर्मविशेषणानां च क्रियाव्युत्पन्नानां निर्माणेन सह सम्बद्धः भवति । क्रियामूलेषु योजिताः एते प्रत्ययाः संस्कृतसाहित्ये व्याकरणे च बहुप्रयुक्तानां संज्ञाविशेषणानां विविधरूपाणां निर्माणे अत्यावश्यकाः सन्ति । मिथिलाप्रसादत्रिपाठिना प्राचीनसंस्कृतकाव्येभ्य: प्रचुरां प्रेरणां प्राप्य स्वकीयया नवनवोन्मेषशालिन्या प्रतिभया सुग्रथितस्य भार्गवीयमहाकाव्यस्य रचना कृता । काव्यकारेण मिथिलाप्रसादत्रिपाठिना कृदन्तपदानां प्रयोगोऽपि बाहुल्येन विहित:। तिबादिभ्य: भिन्नाः धातुभ्यः विहिताः सर्वे अपि प्रत्ययाः कृत्प्रत्ययाः भवन्ति। येषामन्ते कृत्प्रत्यया: भवन्ति तानि पदानि कृदन्तानि भवन्ति। कृधातो: विहितेन तृच् प्रत्ययेन कर्ता इति सुबन्तपदं निर्मितं भवति । कृत्प्रत्यया: केचन वैदिका: केचन लौकिका: सन्ति। लौकिकेषु अपि केचन सामान्याः प्रत्ययाः केचन विशेषप्रत्ययाः सन्ति । ये प्रत्ययाः सर्वेभ्य धातुभ्य: विहिता: ते सामान्यप्रत्ययाः भवन्ति । ये विशेषधातुभ्य: विहिता: ते विशेषप्रत्ययाः भवन्ति। तृच्, क्त्वा, तुमुन् इत्यादयः सामान्यप्रत्ययाः भवन्ति खश, इकन, क इत्यादय: विशेषप्रत्ययाः भवन्ति ।
How to cite this article:
उमा शर्मा, लक्ष्मण सिहं:. भार्गवीये महाकाव्ये कृदन्त-अनुप्रयोगसमीक्षणम्. Int J Sanskrit Res 2024;10(5):68-72.