International Journal of Sanskrit Research
2024, Vol. 10, Issue 5, Part A
गोपबन्धुदर्शने आत्मतत्त्वसमीक्षणम्
डः.सस्मिताबन्दरनायकः
दार्शनिकानां खलु सुखप्राप्तये दुःखपरिहाराय प्रवृत्तिर्बलवती दृश्यते । यद्यपि आत्मतत्त्वनिर्द्धारणं तु वास्तविकं बहुकष्टसाध्यं तथापि शास्त्रेभ्यः सारं संगृह्य किमपि दिङ्मात्रं प्रदर्श्य पश्चाद् गोपबन्धुमतं प्रदर्शयामि। अत्-धातोः मनिन्-प्रत्यये कृते आत्मन् इति शब्दः निष्पद्यते । यद्यपि आत्मा परंब्रह्मवाचकः तथापि यस्य सामान्यार्थे लौकिके जीवक्रियात्मशक्तिरात्मशब्देनोच्यते । तत्तद्दर्शनानुसारं शास्त्रकारैः आत्मतत्त्वस्य बहुविश्लेषणात्मकं विवरणं प्रस्तुतीकृतम् । वैदिकवाङ्मये ब्रह्मात्मशब्दौ यद्यपि पृथगर्थपरौ प्राप्येते तथापि तयोः पूर्णतया स्वातन्त्र्यं पार्थक्यं च वक्तुं न शक्यते । उपनिषत्सु आत्मा पूर्णः अखण्डश्च । स च सदसतोः, अणुबृहतोः, बाह्यान्तरयोः, अन्येषां च समग्रधर्माणामाश्रयः । आत्मा अविद्योपधानेन जीवभावं प्रतिपद्यते तात्त्विके भेदो नास्तीति शांकरा मन्यन्ते । द्वैते सर्वत्र आत्मैव परमेश्वरो मन्यते । तत्र चार्वाकाः देह एव आत्मा, उपभोगो जीवस्य लक्षणममिति जैनाः । अत्र जीवा अनन्ताः देहपरिमाणविशिष्टाः, बद्धमुक्तभेदेन द्विविधाः । तत्र कुत्रापि शून्यं कुत्रापि स्कन्धपञ्चक्विशिष्टमात्मस्वरूपमिति बौद्धाः संगिरन्ते । शङ्कराचार्यनये आत्मनः अस्तित्वविषये साक्षात्प्रमाणस्यावश्यकता नास्ति । यतो हि युक्तिप्रमाणापेक्षया अनुभूतिरत्र बलिष्ठं प्रमाणम् । केनाऽपि एवं वक्तुं न शक्यते यत् अहं नास्मीति । भाष्यधिया- ‘न हि अग्नेरौष्ण्यमग्निना निराक्रियते, तथाहमेवेदानीं जानामि वर्तमानं वस्त्वहमेवातीतरं चाज्ञासिषमहमेवानागतमवगततरं च ज्ञास्यामात्यतीतानागतवर्तमानभावनाऽन्यथा भवत्यपि ज्ञातव्ये न ज्ञातु नान्ययाभावोऽस्ति, सर्वदा वर्तमानस्वभावत्वात् । 1 इत्यत्र आत्मनः सत्ता सिद्धा । आत्मा विषयी विषयश्च भवति । आत्मा तत्त्ववेत्ता इत्यनेन तस्य आत्मनः विषयित्वं ज्ञायते । पुनः प्राप्तव्यत्वात् स आत्मा विषयस्वरूपो भवति । अत एव 'आत्मा वाऽरे द्रष्टव्यः श्रौतव्यः मन्तव्यः निदिध्यासितव्यः2 इति उपदिश्यते । आत्मस्वरूपनिर्णये सांख्ययोगवादिनः यथा- 'प्रमेयसिद्धिः प्रमाणसिद्धिः'3 प्रमाणद्वारा प्रमेयरूपः पुरुष एव आत्मेति स्वीयाभिमतं प्रकटयन्ति। सांख्ये पुरुषो नैकः, किन्तु बहवः । योगे आत्मा ईश्वरो नाम । कर्मफलानां भोक्ता पुनर्भवगामी आत्मैव मीमांसानये जीवः। नैयायिकाः आत्मनः द्वैविध्यं मन्यन्ते । जीवात्मपरमात्मभेदात् । परमात्मा एकः जीवस्तु बहवः ।ब्रह्मणः अस्तित्वे प्रमाणानाम् अस्तित्वसिद्धिर्जायते । परन्तु प्रमाणानाम् अस्तित्वसिद्धौ ब्रह्मणः अस्तित्वसिद्धिर्न भवति । यदि आत्मा आत्मानुमानादिप्रमाणगम्यः इति स्वीक्रियते चेत्, तन्न समीचीनम् । यतो हि आत्मनः प्रकाशेन अस्तित्वेन च प्रमाणानां सिद्धिर्जायते । तत्र अनुमानादिप्रमाणानि कथं स्वाश्रयभूतात्मनः प्रकाशकानि भविष्यन्ति। अतः केनापि प्रमाणेन आत्मसिद्धिर्न जायते।
How to cite this article:
डः.सस्मिताबन्दरनायकः. गोपबन्धुदर्शने आत्मतत्त्वसमीक्षणम्. Int J Sanskrit Res 2024;10(5):20-22.