पूण्यभारतभूमेः ज्ञानपरम्परा सदा एव विश्वजगति प्रसीदति। ऋषिमानसे समुद्भासितं चिन्तनं सर्वदा हि मनुजानां कल्याणाय भवेदिति। मनुजानां दुःखदुर्दशादिपरिहारोपायः तथा च इष्टप्राप्तेरुपायः निहितोऽस्ति वैदिकसाहित्येष्वेव। वैदिकसाहित्ये निहितं मानवकल्यादिचिन्तनं दार्शनिकचिन्तऩञ्च उपनिषत्साहित्ये महीरुहरूपेण प्रतिफलितं स्यात्। उपनिषद् वेदस्यान्तिमभागत्वाद् वेदान्त इति संज्ञां भजते। इदमुपनिषत्साहित्यं दार्शनिकचिन्तनस्य सर्वोच्चं स्थानवैशिष्टं लभते। उपनिषदां महिमा सदा सर्वथा च कीर्तितो भवति। पाश्चात्यविदुषा शोपेनहाओयारमहाभागेन उपनिषद्विषये महती उच्चकोटिभावना पोषिता दृश्यते- In the whole world there is no study so beneficial and so elevating as that of the Upanisads. It has been the solace of my life, it will be the solace of my death. अस्य महिमामण्डितस्योपनिषत्साहित्य १०८ संख्यकोपनिषदः वर्तन्ते मुक्तिकोपनिषदनुसारेण। तासूपनिषत्सु यासामुपरि शङ्कराचार्येण भाष्यं कृतं ताः मुख्योपनिषदः वर्तन्ते। अपरसमस्ताः उपनिषदः गौणोपनिषदः वर्तन्ते। गौणोपनिषत्सु निहितानां विविधानां दार्शनिकतत्त्वानां मध्ये प्रकृतितत्त्वं विचारितमस्ति।