ये भक्ताः भगवान् विष्णुरेव स्वस्य मुख्यदेवः परमात्मा वेति मन्यन्ते ते वैष्णवाः । तत्सम्बद्धाः धार्मिकदर्शनानि सिद्धान्ताश्च वैष्णवधर्मः नाम्ना ख्यातः । विष्णुः वैदिकः देवता यस्य प्रभावः क्रमेण वर्धितः । वैष्णवधर्मे अवैदिकसूक्तानि विष्णुसम्बन्धीनि आख्यानानि सन्ति । ऋग्वेदे देवानां महिमा, पराक्रमः व्यापकत्वं विहाय उपनिषदां ज्ञानं, दर्शनं, सिद्धान्ताः च अस्मिन् धर्मे अन्तर्भूताः सन्ति । याज्ञिककर्मणः स्थाने भक्ति-पूजनयोः समागमः भवति ।