शिवः परमानन्दबोधरूपं, शिवः निरतिशयसुखस्वरूपम्, शिव अज्ञान विनाशकत्वे सति ज्ञानस्य प्रकाशरूपत्वम्। लौकिकैः सृष्टिकर्ता ब्रह्मा ,पालनकर्ता विष्णुः , तथा संहारकर्ता महेश्वरः शिव इति कथयन्ति। पुराणेषु शिवस्वरूपविषये बहु आलोचना परिदृश्यते । ते शिवं केवलं संहारकर्तृरूपेण पुराणेषु प्रदर्शयन्ति। किन्तु शाङ्करवेदान्ते शिवस्वरूपं प्रतिपादनावसरे मधुसूदनसरस्वतीमहाभागेन शिवः परमानन्दबोधरूप इति प्रतिपादितम् । “शिव केवलोऽहम्” ,इति उक्त्या आत्मज्ञानिनाम् आत्मस्वरुपे अवस्थानं प्रतिपादयति शंकरः । अतः शिवः न केवलं संहारकर्ता अपितु सृष्टि-स्थिति-लयकारणं परब्रह्मपरमात्मा इत्युक्तम् । शिवः ज्ञानस्वरूपम् आनन्दस्वरुपम्, शान्तकान्तस्वरुपम्, प्रज्ञानघनस्वरूपम् । “आनन्दात् खलु इमानि भुतानि जायन्ते आनन्देन जातानि जीवन्ति आनन्दं प्रयन्ति अभिसम्विसन्ति” इति आनन्दसम्बलितं श्रुतिवाक्यं परमात्मनः आनन्दस्वरूपत्वं प्रतिपादयति।