संस्कृतसाहित्ये काव्यानां प्रतिपत्तिः प्राच्यपाश्चात्यविदुषामत्यन्तप्रियत्वाल्लौकिकसंस्कृतसाहित्ये नैकानि काव्यानि प्रथितानि सन्ति। काव्यस्य दृश्यश्रव्यत्वभेदेन दृश्यस्य रूपकत्वं तत्रापि दशविधरूपकं नाटकप्रकरणादीनि लोके बहुधा आदृतानि सन्ति। तदर्थं काव्येषु नाटकं रम्यमिति रूपकस्य श्रेष्ठता काव्यसमालोचकैस्तावदालोचिता वर्तते। प्रो. वीरेन्द्रकुमारभट्टाचार्येण विरचितशार्दूलशकटरूपकस्य नाटकलक्षणान्यविद्यमानानि विद्यन्ते। तदर्थं नाटकस्य कानिचिदेव लक्षणान्यत्र प्रतिभान्ति परन्तु प्रकरणस्य सम्पूर्णलक्षणमत्र प्राप्यते तदर्थमिदं रूपकं प्रकरणमिति बहुधा आलङ्कारिकैस्तावत् आद्रीयते। इदं रूपकं नायिकविहीनं प्रकरणं भवति। अन्यच्च बहुषु प्रकरणेषु नायिकायाः विहीनत्वेऽपि प्रकरणत्वं न हानिरिति संस्कृतसाहित्ये प्रमाणीकृतं वर्तते। पञ्चाङ्कविशिष्टमिदं रूपकमादिशूरस्य नायकत्वं सूचयति।