International Journal of Sanskrit Research
2024, Vol. 10, Issue 4, Part B
वैदिकसाहित्यदिशा सृष्टिरहस्यम्: एका समीक्षा
सोनाली रॉय
अतिगहनं वेदशास्त्रम्। प्राचीनकालात् आर्यर्भारतीयाणां वा जीवनयात्रायाः तथा ज्ञानसाधनस्य एक एव आधारो वर्तते वेदः। विविधेषु भारतीयतत्त्वसाधनेषु शास्त्रेषु वेदः प्राचीनतमः प्रसिद्धश्च। श्रीमद्भगवद्गीता-पुराण-मनुस्मृति-भारतीय-दर्शनादिनी शास्त्राणि इव अस्मिन् प्राचीनशास्त्रे तथा वेदेऽपि तत्त्वानुसन्धानस्य विविधविषयाः चर्चिताः विश्लेषिताः वा। तेषु चर्चतेषु विषयेषु महत्वपूर्णम् एकम् उल्लेखयोग्यं च वर्तते परिदृश्यमानजगतः उत्पत्तिरिति। न केवलं वैदिकसूक्तसाहित्ये उपनिषद्शास्त्रेऽपि अस्य जगतरुत्पत्तेः विषयस्य सम्यक् सिद्धान्तस्य उल्लेखः परिलक्ष्यते। वैदिकसाहित्ये परमात्मा परमेश्वरो वा जगतः सृष्टेः मुख्यकारणरूपेण स्वीक्रियते। वैदिकसाहित्यानुसारं जगतरुत्पत्तेः कृते परमेश्वरः सर्वाग्रे ब्रह्माणं सृष्ट्वा तं जगतो निर्माणार्थं प्रेरितवान्। संक्षेपेन वक्तुं शक्यते यत्, ब्रह्मा परमेश्वरस्य इच्छया इदं जगत् निर्मितवान्। अयं परमात्मा कदापि पुरुषरूपेण, कदापि इन्द्ररूपेण, कदाचिद्वा विश्वकर्माकालादिरूपेण च अस्माकं समीपे प्रवर्तते। परन्तु स एव एकम् अद्वितीयञ्च अस्ति। तेन विना एतस्य जगतः प्रादुर्भावः न सम्भवति। अर्थात् परमेश्वरः अस्य जगतो धारणकर्ता पालनकर्ता च इति। स एव धाता विधाता च। सर्वोपरि स एव अस्य जगतो ब्रह्माण्डस्य वा सृष्टिस्थितिविनाशानां च एकैव कर्तारूपेण प्रवर्तते। वैदिकसाहित्ये प्रस्फुटितः वहुलचर्चितोत्पत्तिविषयको मतवादः अस्याम् आलोचनायां विद्यन्ते।
How to cite this article:
सोनाली रॉय. वैदिकसाहित्यदिशा सृष्टिरहस्यम्: एका समीक्षा. Int J Sanskrit Res 2024;10(4):101-104.