International Journal of Sanskrit Research
2024, Vol. 10, Issue 3, Part D
वैदिकवाङ्मये शून्यतत्त्वस्यावधारणा
डॉ. शुभमयपाहाडी
वेदस्य मूलसंहिताषु असीममनन्तं ज्ञानं परिपूर्णरूपेण विद्यते। न केवलमाध्यात्मिकमपि तु सर्वाणि आधिभौतिकानि आधिदैविकानि च ज्ञानानि वेदेषु अन्तर्भूक्तानि सन्ति। सर्वाणि भौतिक विज्ञानानि यस्याधारेण प्रभवन्ति स भवति वेद:। वैज्ञानिकाः आमनन्ति यत् भारतवर्षं न केवलं धर्म-दर्शनक्षेत्रे अपि तु विज्ञान-कारिगरिक्षेत्रेऽपि विशेषतया चिन्तनमकरोत्। एवञ्च भारतीयाः पुर्वजाः ऋषयः चिन्तकाः विज्ञान-अध्यात्मयोः समन्वयं कृतवान्। वैदिकवाङ्मये ब्रह्मविद्यया सह द्रव्यज्ञान-सृष्टिविद्या-भौतिकी विद्या-आकर्षणानुकर्षणविद्या-प्रकाश्य-प्रकाशकविद्या-गणितविद्या-तारविद्या-वैमानिकविद्या-चिकित्साविज्ञान-वास्तुविज्ञानानि वर्णितानि। वस्तुत: एतेषामाधारेणैव आधुनिकविज्ञानं प्रभवति। अत्र विशेषतः गणितशास्त्रस्य चिन्तनं येन विना वयं कर्त्तुं न शक्नुमः तस्यैव शून्यतत्त्वस्य विश्लेषणं विधीयते। प्राचीनभारतवर्षे शून्यशब्दस्य उपयोगः व्यापकः महत्त्वपूर्णश्च।
How to cite this article:
डॉ. शुभमयपाहाडी. वैदिकवाङ्मये शून्यतत्त्वस्यावधारणा. Int J Sanskrit Res 2024;10(3):225-229.