International Journal of Sanskrit Research
2024, Vol. 10, Issue 2, Part D
साहित्यशास्त्रे व्यञ्जनाविमर्शः
Dr. Sudesh
साहित्यशास्त्रे एकत्र लोकानुरञ्जनाय समाजाय च समुचितां शिक्षां प्रदातुं लक्ष्यत्वेन काव्यरुपे गद्य-पद्य-नाचकानि विभिन्नशिक्षाप्रदाः कथाश्च विद्यन्ते, अपरत्र लक्षणरुपे काव्यस्वरुपम्, काव्यप्रयोजनानि, काव्याङ्गानि, काव्यहेतुः, शब्दशक्तयः, अलङ्काराः, छन्दांसि, रसाः, गुणदोषाः इत्यादीनाञ्च विवेचनं क्रियते। साहित्यशास्त्रे तिस्रः शब्दशक्तयः अभिधा, लक्षणा, व्यञ्जना चेति प्रतिपादितां वर्तन्ते। आसु रसादीनां बोधकायाः व्यञ्जनाशक्तेः साहित्यशास्त्रे कीदृशं स्वरुपं वर्णितं वर्तते इति धिया शोधपत्रमिदं व्यलेखि। परस्मिन् साहित्यशास्त्रे वयञ्जनास्वरुपप्रतिपादनात् स्पष्टं भवति यद् अभिधालक्षणातात्पर्याख्यावृत्तयो रसबोधने न क्षमाः, तस्माद् रसादीनां बोधे व्यञ्जनाशक्तिः स्वीकरणीयाः।
How to cite this article:
Dr. Sudesh. साहित्यशास्त्रे व्यञ्जनाविमर्शः. Int J Sanskrit Res 2024;10(2):215-219.