Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 2, Part D

मनुयाज्ञवल्क्यस्मृतौ मानवीयव्यत्तित्वविकासतत्त्वानि

डॉ. रूपकुमारपण्डा

सर्वेषां ज्ञानरत्नानामाकरः, सुखशान्तिप्रबोधकः, भारतीयसंस्कृतेः आधारस्तम्भश्च वेदः । दर्शन- राजनीतिमनोविज्ञानगणित-रसायणशास्त्र-वनस्पतिविज्ञान-पदार्थविज्ञान-भूगर्भविज्ञान-नाटककाव्यकामशास्त्रललितकला-विविधविषयाणां प्रतिपादकः वेदः। राष्ट्रियता, बन्धुत्वभावना, परोपकारः, सत्कर्मः, मातृपितृदेवातिथिसत्कृतिः, शिल्पशास्त्रमर्थशास्त्रं, राजनीतिविज्ञानं, विश्वस्य प्राचीनेतिहासश्चेत्येतत्सर्वं वेदस्य मूल्योपादानं भवति । श्रुतिस्तु वेद¨ विज्ञेय¨ धर्मशास्त्रं तु वै स्मृतिः । प्रपञ्चेऽस्मिन् भारतभूखण्डे धर्मस्य प्राधान्यं वरीवत्र्तते इति समेषां प्रेक्षावतां सिद्धान्तः । दुःखदैन्यपरिपूर्णेऽस्मिन् संसारे जननानन्तरं मनुष्यः स्वस्य¨न्नतये सततं यतते। तस्य¨न्नतिः पुरुषार्थचतुष्टयस्य¨परि निर्भरशीला भवति । अयं तावत् धर्मः सनातनरूप¨ऽनादिरनन्त¨ नित्य¨ऽपि च चतुर्दशविद्याविभूषितभारतीयसंस्कृतिः विश्वे श्रेष्ठतरस्थानमलंकर¨ति । धर्मशास्त्रे विंशतिधर्मशास्त्रकाराः सन्ति । तेसां नामानुसारेण स्मृतिशास्त्राणि संरचितानि सन्ति । धर्मशास्त्रे यानि तत्त्वानि सन्ति, तानि मानवानां मूल्यसंवर्द्धने व्यक्तित्वविकासे च सहकुर्वन्ति । वस्तुतः अहिंसा परम¨ धर्मः वर्णभेदानामनुसारेण स्वस्वकर्म कत्र्तव्यम्, भक्ष्याभक्ष्यविषये चिन्तनम्, आश्रमधर्मपालनम्, अतिथिपूजनम्, आश्रमवातावरणनिर्माणम्, सच्चिन्तनमाध्यमेन च मानवानां नैतिकाध्यात्मिक.सामाजिक.शैक्षिक. राष्ट्रियमूल्यैः साकं तेषां गुणानां विकासः भवति।
Pages : 211-214 | 94 Views | 42 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. रूपकुमारपण्डा. मनुयाज्ञवल्क्यस्मृतौ मानवीयव्यत्तित्वविकासतत्त्वानि. Int J Sanskrit Res 2024;10(2):211-214. DOI: 10.22271/23947519.2024.v10.i2d.2354

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.