आयुर्वेदस्य विविधाः परिभाषा आचार्यैः वर्णिता सन्ति। केचन मन्यते यत् अयं ‘जीवनस्य विज्ञानमस्ति’, अतः आयुषो-विषये यत् किमपि ज्ञानमुपलभ्यते, तत सर्वम्-अत्र समाहार्यम्। यया विद्यया रोगानां नाशो भवेत्, मानवानां च जीवनमारोग्यं दीर्घायुष्यं च स्यात्, सा विद्या आयुर्वेदीया विद्या वर्तते।1 एव॰च चिकित्साजगति यच्चैरन्तनं ज्ञानं जातमास्ते यच्च नूत्नं रमणीयं जीवनोपयोगिज्ञानं विश्वस्मिन् यत्र क्वापि प्रचलितं दृश्यते, तदत्र सात्मीकृतं स्यात्।
पुपुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम्।
सन्तः परीक्ष्यान्यतरद् भजन्ते मूढः पर प्रत्ययनेय बुद्धिः।।
2इत्यनुसारं नीर-क्षीर-विवेक बुद्धया, धैर्येण, परिश्रमेण च यद्-आधुनिकैरायुर्विषये ज्ञानमाविष्कृतं वर्तते, आयुर्वेदश्चैकमतीव महत्त्वपूर्णं विज्ञानस्ति। विज्ञानं च सार्वभौमं भवति सार्वजजीनं भवति, न तत्र कस्यापि जातेरधिकारः स्वीक्रियते, एवं चेदमपि निगदितंु शम्यते यत् ‘कृतानि पुत्रैरकृतानि पूर्वैः’ अर्थात् ह्यो यदविदितमासीत्, तदह्य ज्ञायते, अद्य वा यदविदितमस्ति तत्, श्वो ज्ञातुं शक्यते। विज्ञानस्य बुद्धेश्य सीमाङ्कनं नैवास्ति। विज्ञानविषये चाहर्निशं गवेषणा बोभवीति। अतश्च ते प्राच्य चिकित्सा विज्ञानस्यात्याधुनिकस्य च चिकित्सा विज्ञानस्य साम॰जस्यं विदधति।3 ज्ञानं च पवित्रतमं वस्तु तहाहरणे च सततं प्रयतितव्यम्। ‘नहि ज्ञानेन सदृशं पवित्रमिह विद्यते’’। इदं च विज्ञानं शाश्वतं सत्यं सनातनं विश्वजनीनं सर्वप्राणिहितकरं सार्वभौमं विज्ञानमस्ति। न चात्र रूढिग्रस्तता परिलक्ष्यते। दृश्यते किल यत् वैदिके काले या चिकित्सा पद्धतिरासीत्, सा चरकसुश्रुतादिकाले विकासमाप।4