भारतीयदर्शने शब्दो ध्वनिः, ज्ञानप्राप्तेः साधनम् । दर्शनेषु शब्दस्य अतिप्राचीनपवित्रग्रन्थवेदैः सह समीकरणं भवति । वेदो नित्यः, अपौरुषेयो निरपेक्षः इति सर्वथा मन्तव्यः। व्याख्यानात्मके मीमांसाविद्यालये शब्दस्य महत्त्वं समर्थितम् । मीमांसा प्रयोगात्मकं कर्म उपदिशति, शास्त्रीयवाक्येषु तान् प्रयोजयति, मीमांसायाः प्रभावशीलता शब्दज्ञानमाध्यनेन परिचीयते । न्यायनये शब्दः अनित्य पौरुषेयः मन्यते । बौद्धजैनाः यद्यपि वेदानाम् अस्तित्वं प्रामाण्यत्वं तिरस्कुर्वन्ति तथापि वस्तुतः स्वशास्त्रं शब्दाश्रयं मन्यन्ते । वैयाकरणाः शब्दो ब्रह्म स्वीकुर्वन्ति । अयं शब्दः कुत्र ध्वनिः, कुत्र स्फोटः, कुत्र नाद इति वर्तमाना सततं जागर्ति ।
सामान्यतया शब्दस्य अनेकाः प्रकाराः अर्थाः भवन्ति । शब्दः व्यापकार्थे ध्वनिः । यथा मृदंगस्य ध्वनिः, घण्टानादः, रेलयानस्य शब्दः इत्यादयः। अत्र शब्देन शब्दमात्रं अवगच्छामः। एषः ध्वन्यात्मक उच्यते । यदा तु शब्देन सह अक्षरमपि श्रूयते तदा तत् वर्णात्मकशब्द उच्यते। यथा क, ख, ग इत्यादयः । एते द्विविधाः – सार्थकाः निरर्थकाश्च । आद्यः सार्थकः अपरो निरथकः। शब्दो वस्तु सूचयति, यथा घटशब्दः 'घटः' पटशब्दः 'पट' इति वस्तु सूचयति । एते सार्थकाः, येषां वस्तुनिरूपणशक्तिः विद्यते । ऋषिवाक्यमपि शब्दसंज्ञा प्रदीयते । शब्दार्थयोः मध्ये कोऽपि सम्बन्धोऽस्ति वा न वेति विषये भारतीये वैयाकरण-साहित्य-दार्शनिकानां मध्ये पर्याप्ताः मतभेदाः । तेषां स्वरूपाणि दिङ्मात्ररूपेण प्रदर्शयितुमस्य शोधनिबन्धस्य अयमारम्भो जातः ।