International Journal of Sanskrit Research
2024, Vol. 10, Issue 2, Part B
भगवद्गीतायां मानवतावादः
ऋतब्रता साउ
मानवशरीरं परिगृह्य भगवान् युगे युगे मर्तभूमौ अवतरति। अतो भगवद्वाणीषु मानवतावादः सुलभो लक्ष्यते। अर्जुनमुपलक्ष्य अतीतानागतवर्तमानानां मानवानां कृते भगवत उदारता मानवता च स्वत एवोत्सारिता। मानवता नाम आन्तरिक-स्नेह-प्रेमवशात् परस्परं प्रति ममत्ववोधप्रदर्शनम्। यथा कथञ्चिद्रूपेण भगवदुपासनया तत्कृपा प्राप्यते एव। अनन्योपासकानां कृते स्वयमेव भगवान् योगक्षेमं वहति। सुदूराचारो पापिष्ठः नराधमोऽपि तत्कृपालाभाद् न वञ्चितो भवति, किञ्च ‘स्त्रियोवैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्’। ‘भक्त्युपहृतं यत् किञ्चिदपि पत्रं पुष्पं फलं तोयं वा भक्तप्रदत्तं सादरं गृह्णाति भगवान्। किञ्च अनन्यशरणागतं भक्तं भगवान् सर्वपापाद् मुक्तं करोति इति निश्चप्रचम्। अहो! एतावान् खलु तस्य अपारः महिमा। एतावती खलु भगवतः मानवता उदारता च।
How to cite this article:
ऋतब्रता साउ. भगवद्गीतायां मानवतावादः. Int J Sanskrit Res 2024;10(2):71-74.