Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 2, Part A

अपराजितवधूमहाकाव्यप्रणेतुः पूर्णचन्द्रशास्त्रीणः काव्यरचना वैचित्र्यम्

सुचित्रा साहु

सत्वरजस्तमोभिस्त्रिगुणैः प्रतायमानेऽमुष्मिन् मायाप्रपञ्चे निमज्जतां प्राणिनां त्रितापसन्तापनाशाय चतुर्वर्गपुरुषार्थसम्प्राप्तये काव्यकलाकलिकारसपेपीयमानाः कविप्रवरा मधुव्रता इव प्रतिभान्ति । संस्कृतकाव्यानि वैदिकसाहित्यं पुराणं रामायणमुपजीव्य समुपन्यस्तानि । वेदेषु वर्णितानामाख्यायिकानामाधारेण कवयः लौकिककाव्यप्रणयने प्रयासं समाश्रयन्ति । कालिदासस्य विक्रमोर्वंशीयकाव्ये वेदवर्णिता उर्वशीपुरुरवसुप्रणयकथा संलक्ष्यते । संस्कृतभाषाकवयः तादृशीं प्रणयकथां शिरसि निधाय मेघदूते कालादासः भृत्ययक्षस्य प्रणयकथां प्रतिपादितवान् , तथैव भासोऽपि दरिद्रचारुदत्ते – दरिद्राश्रयकथां प्रकटितवान् ।कविः शुद्रकोऽपि मृच्छकटिके दरिद्रचरितं महनीयशैल्या समुपस्थापितवान् । आदिकविः वाल्मीकिनापि स्वप्रणीतरामायणे करुणरसस्य प्रवाहमुपपादितवान्। रस प्राकर्ष्यमपि कविश्रेष्ठश्रीहर्षः समाश्रितवान् । संस्कृतकाव्यस्रोतसि ये विद्वांसः काव्यप्रणेतार आसन् तेषां मध्ये भास – कालिदास – अश्वधोष – माघ – दण्डी – क्षेमेन्द्र – श्रीहर्षप्रभृतयः प्राथम्यं भजन्ते । तत्र संस्कृतकाव्यजगति काव्यस्य महिमा -गरिमा मधुरिमा विपश्चितां समादृतत्वात् काव्यमित्युक्ते “कवेः कर्म काव्यम्” । शब्दार्थयोः रसालंकारसहितं यथार्थप्राकर्ष्यमनुभूयते। तदेव काव्यत्वेन अभिधीयते । काव्यसौन्दर्यसम्बन्धे आनन्दवर्धनः कथयति – रसक्षिप्ततया यस्य वन्धः शक्यक्रियो भवेत् । अपृथञ्यत्ननिर्वर्त्यः सोऽलंकारो ध्वनौ मतः ।।१।। १.ध्वन्यालोकः
Pages : 37-38 | 86 Views | 31 Downloads


International Journal of Sanskrit Research
How to cite this article:
सुचित्रा साहु. अपराजितवधूमहाकाव्यप्रणेतुः पूर्णचन्द्रशास्त्रीणः काव्यरचना वैचित्र्यम्. Int J Sanskrit Res 2024;10(2):37-38.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.