विशेषतो हृषीकेशभट्टाचार्य-रामावतारशर्मप्रभृतीनां निबन्धेषु मानवाधिकार- चेतना दरीदृश्यते। हृषीकेशभट्टाचार्यो विद्योदये स्वोपज्ञान् बहून् ललितनिबन्धान् प्रकाशयामास। तत्र प्राप्तपत्रम् इति निबन्धे अनामिकां नाम कामपि देवीं परिकल्प्य पत्रद्वारेण नारीणां व्यथां वर्तमानकाले नारीणामधिकारचेतनां अधिकारहननं चासा पुरुषैरिति विषयमयं मर्मस्पृशं निरूपयति। तद्यथा– "अहो विचित्रमेतत्। अन्यत्र देशेषु प्रथमावस्थायामेवाबलानां दुर्गतिः श्रूयते। अथ यथा यथा धर्मबुद्धैराविर्भावः सभ्यताया विस्तृतिश्च तथा तथैव स्त्रीणामप्युन्नतिर्जाता। भारते तु सर्वथा तद्वैपरीत्यमिति। यतो ऽत्र स्मार्तसमयादारभ्यैव स्त्रीणां चरणौ सुदृढं नियन्त्रितौ। खिलीभूताश्च चिराय तासां समुन्नतो पन्थानां, सन्निरुद्धश्चाशेषतः श्रेयसां मार्गः, संरोपितमवरोधबन्धनस्य मूलं, निक्षिप्तश्चासामुपरि सुदुस्सहपुरुषा- धिपत्यक्लेश-प्रवाहः।"