उत्कृष्टपरम्परायाः समुन्नतसंस्कृत्याः भूमिरिति भारतवर्षः विश्वविदितः । राष्ट्रोऽयं शिक्षा-संस्कृति-ज्ञान-विज्ञान-अर्थनैतिक-सामाजिकादिक्षेत्रेषु अपि विश्वस्य अन्येषु भूभागेषु उन्नततरः आसीत् । भारतवर्षस्य सर्वोत्कृष्टा सम्पद् अस्ति संस्कृतवाङ्मयम् ।
भारतीयमतानुसारं शब्दार्थयोः सम्बन्धः नित्यः स्वाभाविकश्च । क्रियाभेदात् संस्कृतभाषायाम् एकस्य विषयस्य वाचकाः बहवः शब्दाः भवितुमर्हन्ति । ते शब्दाः पर्यायवाचिनः समार्थकशब्दाः वेति उच्यन्ते । संस्कृतकोशग्रन्थेषु एतादृशानां बहुशब्दानां संग्रहः प्राप्यते । तेषु कोशग्रन्थेषु महामान्य-अमरसिंहरचितः अमरकोशः अन्यतमः । तत्र ‘भुवर्गादिकाण्डो’ नाम द्वितीयकाण्डस्य वनौषधिवर्गे वृक्षशब्दस्य बहुपर्यायाः प्राप्यन्ते । यथा –
वृक्षो महीरुहः शाखी विटपी पादपस्तरुः ।
अनोकहः कुटः सालः पलाशी द्रुद्रुमागमाः ।।
आलोच्यमाणः संक्षिप्तः प्रबन्धोऽयम् अमरकोशस्यावलम्बनेन वृक्षस्य समार्थवाचकशब्दानाम् अर्थविवेचने तेषां यौक्तिकतापरीक्षायाञ्च प्रवृत्तः ।