संस्कृतभाषायां यथा सर्वेषां मनुष्याणां जीवनचरितं मानवसभ्यतायाः संस्कृतेश्च तथ्यं सकलं निहितमस्ति।तथैव प्रतिदिनं जन्मादारभ्य मरणं यावत् गर्भाधानजातसंस्कारादिकं मरणावस्थायामपि शौचसंस्कारादि कर्माणि जीवनयात्रायां यानि प्रयोजनीय तथ्यानि सन्ति तानि सर्वाणि संस्कृतभाषायां विलसन्तीति । प्रायसः पञ्चसहस्रवर्षेभ्यः पुरा वेद – वेदाङ्ग – काव्य – पुराण – प्रभृतिभिः संस्कृतभाषा विश्वस्य गौरवमयं महत्वं निर्वहन्ती प्रकामं विद्योतते । तत्र वैदिकसाहित्यस्य गौरवोपरि चेत् द्रुग्पातः विधीयते । तर्हि एतद् वक्तुं शक्यते यत् संस्कृते साहित्यस्वरुपं वैदिकवाङ्कमयमहत्वपुर्णसंहिता - व्राह्मण - आरण्यक - उपनिषद्प्रभृतिभिः तथा शिक्षा - कल्प - छन्द - निरूक्त - ज्योतिषषडङ्गैः वर्द्धितं सुसमृद्धं संस्कृतम् । तत्र वाल्मीकिरामायणे निगदितम् –
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ।। १।।
अत्र लक्ष्यते - हनुमान् स्वमनसि जल्पति यत् चेदहं द्विजातिवत् साधुसंस्कृतं ब्रुयां तर्हि सीता मां रावणं मत्वा विभियात् ।
संस्कृतभाषायाः गौरवं विश्वेप्रतिष्ठापयितुं वहवः प्रयासः सम्प्रतिः संलक्ष्यन्ते।
संस्कृतसाहित्यप्रामुख्येन द्विधा विभज्यते। यथा – वैदिकभागः काव्यभागश्च ।
पाश्चात् विदुषां मध्ये माक्समुलर् History of anniciant sanskrit literature.
प्राचीनसंस्कृतसाहित्यस्य इतिहास इति ग्रन्थं रचितवान् यत्र तु संस्कृतभाषायाः
पुर्णाङ्गस्वरूपं नैव लिपिवद्धमपितु वैदिकसाहित्यसम्वन्धे सविशेषतथ्यमुपाश्रितम् ।