संस्कृतसाहित्ये विरचितेषु नाटकेषु अज्ञातलेखकेन विरचितम् एकं दृश्यकाव्यं वीणावासवदत्तम् । दृश्यकाव्यमिदम् अप्रसिद्धत्वात् परिचितेः अभाववत्त्वात् अपि अन्यतमम् । केषाञ्चित् प्रसिद्धानां संस्कृतनाटकानामिव वीणावासवदत्तनाटकेऽपि मिलनविभेदस्य पुनर्मिलनस्य च दृश्यानि दृश्यन्ते । वीणावासवदत्तमिति नाटकस्य मातृकारूपं त्रिवान्दाम् इति नगरे तालपत्रमध्ये मालयालामिति भाषाक्षरेण उपलब्धम् । माद्राजप्रदेशे औरियेन्टालरिसार्चजार्नाल् इति पत्रिकायां १९२३ ख्रीष्टाब्दे प्रयातः डा. सि कुनहानमहाराजः अस्य नाटकस्य अङ्कचतुष्टयमात्रं प्रकाशितवान्। अस्य नाटकस्य प्रथमे, द्वितीये, तृतीये, चतुर्थे, पञ्चमे च अङ्केमेलनस्य प्रस्तुतिः, षष्ठाङ्के मेलनं, सप्तमाङ्के विच्छेदः, अष्टमाङ्के पुनर्मिलनदृश्यं दर्शितम् अस्ति । नाट्यकारः अष्टमाङ्के पुनर्मिलनाय पूर्ववर्तिषु अङ्केषु अद्भुतविचित्रं नाट्यकौशलं स्वीकृतवान् । अर्थात् षष्ठाङ्कस्य अन्तः पुनः एकस्य अङ्कस्य योजनम् कृतवान् । तत् सप्तमाङ्कपर्यन्तं प्रसरति । यत् नाट्यपरिभाषायां गर्भाङ्कः इति नाम्ना प्रसिद्धः। गर्भाङ्कः स्वल्पभाषया नाटकस्य बीजम् उपस्थापयति, घटनाक्रमेण च मूलनाटकस्य प्रधानोद्देश्येन सह संयुक्तो भूत्वा स फलवान् भवति । गर्भाङ्केन नाट्यकारः तस्य नाटकस्य किञ्चिद् विशेषोद्देश्यं साधयति । गर्भाङ्के प्रस्तावना, सभापूजा च परिलक्ष्येते । अस्मिन् वीणावासवदत्तमितिनाटकेऽपि उदयनवासवदत्तयोः च मेलनं भवति नाटकस्य बीजम् । अत्र इदम् बीजं गर्भाङ्कमाध्यमेन प्रस्फुटितम् । अत्र अर्थोपक्षेपकं नास्ति, स्थापनायाः, मुखसन्धेः च प्रयोगः अस्ति । पञ्चपात्रैः गर्भाङ्कः प्रदर्शितो भवति । यथा – उदयनः, वासवदत्ता, साङ्कृत्यायनी, विदूषकः, भरतरोहकः च । अस्य नाटकस्य स्वयं नायकः उदयनः “वासवदत्ताधिकारम्” इति नाम्ना गर्भाङ्कस्य नामकरणं कृतवान् । नाटकस्य अन्ते परिणयः न दर्शितः किन्तु तौ स्वप्रणयविषये ज्ञातवन्तौ । परन्तु गर्भाङ्के नायकः उदयनः वासवदत्तामेव नायिकारूपेण सहृदयपाठकानां निकटे परिचाययति स्म । अर्थात् गर्भनाटकस्य विषयवस्तुना सह मूलनाटकस्य विषयवस्तु केन प्रकारेण मिश्रितं भवति तस्य एकविधम् अद्भूतं नाट्यकौशलं नाट्यकारः अस्मिन् नाटके प्रदर्शितवान् ।