संस्कृतसाहित्ये विरचितेषु नाटकेषु अज्ञातलेखकेन विरचितम् एकं दृश्यकाव्यं वीणावासवदत्त-मिति दृश्यकाव्यम् अप्रसिद्धत्वात् अपि अन्यतमम् । नाटकमिदं विविधभावेन तात्पर्यपूर्णमस्ति । वीणावासवदत्तनाटकस्य प्रारम्भे संक्षिप्त स्थापना, तस्य लिपिकरस्य विषये च किञ्चिदपि न प्रोक्तम् । अस्य नाटकस्य मातृकारूपं त्रिवान्दाम् इति नगरे तालपत्रमध्ये मालयालामिति भाषाक्षरेण उपलब्धम् । माद्राजप्रदेशे औरियेन्टालरिसार्चजार्नाल् इति पत्रिकायां १९२३ ख्रीष्टाब्दे प्रयातः डा. सि कुनहानमहाराजः अस्य नाटकस्य अङ्कचतुष्टयमात्रं प्रकाशितवान् । अस्मिन् वीणावासवदत्तमनाटकेऽपि द्वौ शापवृत्तान्तौ स्तः। यद्यपि प्रतक्षभावेन शापवर्षनं न भवति तथापि परोक्षभावेन नाट्यकाहिन्या विकाशे अयं द्वे शापवृत्तान्तो विशेषभूमिकां पालयति । नाटकस्य प्रथमाङ्के उदयनः वाल्ये गजोऽस्मीति नरेन्द्रमार्गे हर्षमत्तैः सह दीव्यति। एकदा मार्गे यदा अङ्गारकः नाम एक मुनेः शरीरे गजस्य इव पांसुभिः अकिरत् । ततस्तेन किल महर्षिणा समुपजातामर्षेण “हस्तिहेतोरेव बन्धनं शत्रुवंशं च यास्यतीति” शापः प्रदत्तः । पुनश्च नाटकस्य पञ्चमाङके साङ्कृत्यायनी प्रद्योतं वदति यत् गन्धर्वराजो चित्ररथः गन्धर्वप्रभावेन नश्वररूपेण जननम् अकरोत् । एतदपि सा अवदत् वासवदत्ता सर्वगन्धर्वाणां अधिकारी भवति । नाट्यप्रयोजनविचार दिशाः शापवृत्तान्तस्य अतीव गुरुत्वम् अस्ति । शापः अभिशापरूपेण न विवेचितः,वरं कथमपि प्रकारेण आर्शीवादरूपेण आलोचितः भवति तत् विषयं नाट्यकारः अस्मिन् नाटके प्रदर्शितवान् ।