भारतीयाः सततं तत्त्वज्ञानार्जने निरता इति सर्वे जानन्ति । ते शान्तचित्ताः जितेन्द्रियाः दिव्यचक्षुषोऽखिलं पदार्थज्ञानं करतलामलकवत् प्रत्यक्षीकुर्वाणाः विचारविवेकशीलाश्च भूत्वा मानवसमुदायस्य श्रेयसे कल्याणकामनया च यानि तत्त्वानि, यांश्च सिद्धान्तान् बुद्धियुक्तसहितान् ज्ञानप्राप्तिसाधनभूतान् आविर्भावयामासुः, तानि दर्शनशब्देन व्यवह्रियन्ते । तेषां तपस्यासम्भूतायाः धिषणायाः निखिलानां जागतिकानां पदार्थानां मूलतः आलोचनापूर्वकः तत्त्वज्ञानप्राप्तये युक्तिपूर्वकश्च यः प्रयत्नः साधितः स एव दर्शनशब्दवाच्यो भवति । वैदिकदर्शनसम्बन्धीयमीश्वरतत्त्वं संप्रतिमुपस्थापयिष्यते ।