वेदोऽस्माकं ज्ञाननिधिः । वेदं विहाय भारतीयानां कृते किमपि अधिकं नास्ति । अत्र पृथिव्यां यावन्ति तत्त्वानि विलसन्तितमां तानि सर्वाण्येव वेदे सूक्ष्मरूपेण निहितानि सन्ति । न केवलं दर्शनेषु दार्शनिकग्रन्थेषु, किन्तु ऋग्यजुःसामार्थवाणश्चेति वेदचतुष्टयेष्वपि लक्ष्मीतत्त्वविषयकं श्रीसूक्तमुपलभ्यते । मन्त्रस्तावत्-
हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
या लक्ष्यते दृश्यते जनैः सा लक्ष्मीः सौन्दर्यमित्यर्थः इति वेदभाष्यकारेण महीधरेण उक्तः। इदं श्रीसूक्तं प्राचीन-पञ्चरात्रवैष्णवशास्त्रेषु पुराणशास्त्रेषु आगमेषु शाक्तग्रन्थेषु च नानास्थानेषु उपन्यस्तम् । सर्वादौ देवीपुराणेऽपि देव्याः माहात्म्यं वर्णितम् । तथाहि-
विष्णुपूजासहस्राणि शिवपूजाशतानि च ।
अम्बिकाचरणाचार्याः कलां नार्हन्ति षोडशीम् ॥
अत्र आद्या देवी महालक्ष्मीः । या शक्तितत्त्वस्य मूलभूता महामायेति गीयते । शाक्तसंप्रदाये लक्ष्मीसकाशात् सृष्टि-स्थिति-संहारोत्पत्तिर्वणिता । शाक्तदर्शने लक्ष्मीतत्त्वं कीदृशं विवेचितं तदेव शोधप्रबन्धरूपेणात्र प्रस्तौमि ।