सर्वव्यापि भारतीयदर्शनानि नित्यनिरतिशयानन्दमोक्षमुद्दिश्य प्रवृत्तानि। तेषु न सर्वेषां दर्शनानां साक्षात्तदर्थप्रतिपादकत्वं, किन्तु परम्परया इत्यतः साक्षादात्मतत्त्वप्रतिपादनात् वेदान्तदर्शनम् इतरदर्शनापेक्षया मूर्धन्यं स्थानं भजते। वेदान्तदर्शनेऽस्मिन् प्रस्थानत्रयं सुप्रसिद्धं यथा - श्रुतिप्रस्थानम्, स्मृतिप्रस्थानम्, सूत्रप्रस्थानं चेति। तत्र श्रुतिप्रस्थानम् - उपनिषदः, स्मृतिप्रस्थानम् - भगवद्गीता, सूत्रप्रस्थानम् - ब्रह्मसूत्रम्। एतेषु त्रिष्वपि जगदुत्पत्तिः, तत्कारणम्, अविद्या, उपाधिभेदेन जीवेश्वरभेदः, मोक्षप्राप्त्युपायाः मार्गाश्चेत्येवमनेके विषयाः प्रतिपादिताः। अज्ञानवशात् आत्मज्ञानं किमित्यवगमने क्लेशोऽनुभूयते इत्यत्र तु नास्ति सन्देहः। तन्निवारणाय मिथ्याभूतं वस्तु किं, किञ्च नित्यं वस्तु इत्यादि ज्ञानमपेक्ष्यते। ततश्च मिथ्याभूतानां वस्तूनां जडत्वात्, बाध्यमानत्वाच्च, शुद्धे नित्ये पारमार्थिकसद्वस्तुनि चिन्तनं प्रवर्तते। एवं सद्विषयकचिन्तनेन मनश्शुद्धिः ततः आत्मज्ञानेऽधिकारः भवति, निरन्तराभ्यासेन स्वकर्मानुगुणं भवसागरान्मुक्तो भवति।