इयं वेदान्तप्रक्रिया ब्रह्मण आरभ्य आचार्यपरंपरया संप्रसारिता । ब्रह्मविद्या तावत् कल्पादौ परमेश्वरानुगृहीतहिरण्यगर्भब्रह्मणो बुद्धौ स्फुरति । उक्तं च-
यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोमि तस्मै ।
तँ ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
भगवता वादरायणेन ब्रह्मसूत्रं प्रणीतम् । पश्चात् शंकराचार्यः अद्वैतपरकं भाष्यं रचयामास । क्रमशः प्रक्रियेयं विविधभाष्यकारैः समुपबृंहिता । शंकराचार्यैः पोषितः प्रसारितश्च योऽद्वैतवादः स न नूतनः अपितु प्राचिन एव । शंकरोत्तराद्वैतवादिषु केचन पद्मपाद-सुरेश्वरादयः यद्यपि आचार्यशंकरस्य साक्षाच्छिष्या आसन्, तथापि बहुस्थलेषु गुरु-शिष्ययोर्मध्ये मतान्तराणि कृतिविशेषेषु दरीदृश्यन्ते । संप्रति अवच्छेदवाद-प्रतिबिम्बवाद-आभासवादास्तत्तद् ग्रन्थानुसारं दिङ्मात्रं प्रस्तूयन्ते ।