अस्मिन् निबन्धे व्याकरणशास्त्रस्य दर्शनत्व विषये सम्यग् रुपेण वर्णनमस्ति। वेद एव मोक्षस्य साधकमस्ति। वेदस्य षड् अंगानि सन्ति। शिक्षा, कल्पः, निरुक्तम्, छन्दः, ज्योतिषम्, व्याकरणम्। भगवता भाष्यकृता पतंजलिना षट्सु अङ्गेषु व्याकरणं प्रधानमस्ति। प्रधाने च कृतो यत्नः फलवान् भवति इति। व्याकरणस्य स्वरूपं किं दर्शनं किं अनयोः विषये सम्यग् रुपेण वर्णनमस्ति। दृश्यते आत्मतŸवं विचाय्र्यते येन तद्दर्शनमिति निर्वचनेन विवेचनमस्ति। भारतीयदर्शनानामेव स्वभावो यत् सर्वेषां जीवानां कृते कल्याणमार्गं भवेत् । एकैव वाग् द्विविधास्ति व्याकृताव्याकृताभेदेन । तत्र व्याकृतापदेन पश्यन्ती, मध्यमा, वैखरीणां ग्रहणं भवति। दर्शनशब्दो द्विविधः भावसाधनः करणसाधनश्च। तत्र भावसाधनत्वे दृष्टिरित्यर्थस्तस्यावबुध्यते। करणसाधनत्वे तु दृश्यते प्रत्यक्षीक्रियतेन तु अनुमीयते नाऽपि शब्दजन्यबोधविषयीक्रियते अनेनेति व्युत्पŸया दर्शनसाधनमित्यर्थः। इत्यदीनां विषये सम्यग् रुपेण वर्णनमस्ति।