विंशशतकस्य समारम्भात् संस्कृतसाहित्ये सामान्यजनानां कृते अधिकारचेतना जजागार। नैके संस्कृतसाहित्यकाराः स्वतन्त्रता- सङ्ग्रामे मनसा वाचा कर्मणा आसन् संलग्नाः। अप्पाशास्त्रिराशि- वडेकरेण सम्पादिता सूनृतवादिनी संस्कृतचन्द्रिका चाङ्ग्लशासन- विरोधे बद्धपरिकरे बभूवतुः। एते पत्रिके तु तस्मात् शासनात् स्वराज्याधिकारं याचमाने प्रतिबन्धिते निरुद्धे च। विक्टोरिया- घोषणापत्रम् अप्पाशास्त्री सुनृतवादिन्याः 1.15 तमे ऽङ्के प्रशशंस, यतो हि तत्र भारतीयानां कृते मौलिका अधिकारा प्रतिश्रुता आसन्। परं परस्तात् तद्घोषणपत्रं वाग्जालमात्रं निरर्थकमाडम्बरभूत चासीदित्यनुभूय अप्पाशास्त्री संस्कृतचन्द्रिकाया 14.4-9 अङ्कस्य सम्पादकीये लिलेख-
"खीष्तीयानां 1857 तमे वत्सरे श्रीमत्या महाराज्ञया
घोषणापत्रद्वारा प्रकाशिताः प्रतिज्ञाः न पूरिताः।"