श्रीहर्षकीर्तिसूरिविरचितायाः धातुतरङ्गिण्याः स्वोपज्ञटीकायाः संपादनात्मके अध्ययने ये विशिष्टाः अंशाः समुपदृष्टाः तेषां विन्यसनमत्र परामर्शपूर्वकं क्रियते । सारस्वतव्याकरणानुसारी अयं ग्रन्थः धातुपाठं बिभर्ति। यद्यपि अयं ग्रन्थः अनुभूतिस्वरूपाचार्यस्य सारस्वतव्याकरणमाश्रित्य रचितः तथापि अनेन धातुपाठकारेण कृतः स्वसूत्रन्यासे पाणिनीयसूत्रन्यासे च भेदोऽवलोक्यते।
ग्रन्थकारेण प्रारम्भे स्थानप्रयत्नविषये विस्तृतं चिन्तनं कृतं वर्तते। ततः भ्वाद्यदादिगणविभागपुरस्सरं प्रत्येकं गणे वर्तमानानां धातूनां प्रत्येकं लकारे प्रथमाणि रूपाणि दत्तानि अत्र धातुरूपाणां क्रमकथनस्य विषये अवधेयः अंशः वर्तते।
तत्र तिङन्तप्रक्रियायां विद्यमानाः केचन विशिष्टांशाः, पाणिनीये तथा च धातुतरङ्गिण्युक्ते धातुपाठे विद्यमानाः धात्वर्थभेदाः, उभयत्र अवलोक्याः सूत्रन्यासभेदाः इत्यादयः तिङन्तप्रक्रियाज्ञानजिज्ञासूपकारकाः विषयाः विमृश्यन्ते । संदर्भेऽस्मिन् क्वचित् क्वचित् पाणिनीयः धातुपाठः (सार्थः, (माधवीयधातुवृत्तिः, क्षीरतरङ्गिणी, दैवः धातुपाठः, इतीमे अर्थनिरूपणपराः तथा च धातुवृत्तिसमेताः ग्रन्थाः परिशील्यन्ते।