संस्कृतभाषायाम् आहत्य सप्त विभक्तयः सन्ति – प्रथमाविभक्तिः, द्वितीयाविभक्तिः, तृतीयाविभक्तिः, चतुर्थीविभक्तिः, पञ्चमीविभक्तिः, षष्ठीविभक्तिः, सप्तमीविभक्तिः चेति । एतान्यतिरिच्य सम्बोधनप्रथमाविभक्तिरिति या विभक्तिः प्रयुज्यते सा प्रथमाविभक्तावेवान्तर्भवति । एवमाहत्य संस्कृतभाषायां सप्तैव विभक्तयः । भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकौमुदी इति एकः व्याकरणग्रन्थः विरचितः, यत्र पाणिनिमहर्षेः अष्टाध्यायीग्रन्थान्तर्गतानां सूत्राणां प्रक्रियानुसारेण अनुक्रमणिकां कृत्वा व्याख्यानं कृतमस्ति । महर्षिणा पाणिनिना अष्टाध्याय्यां अष्टसु अध्यायेषु (द्वात्रिंशत्-पादेषु) अनुवृत्त्यनुसारेण सूत्राणि विरचितानि । तान्येव सूत्राणि वैयाकरणसिद्धान्तकौमुद्यां भट्टोजिदीक्षितेन प्रक्रियानुसारेण सङ्गृह्य तेषां सोदाहरणं व्याख्यानं कृतम् । प्रक्रियानुसारेण सूत्राणि वर्गीकृत्य भिन्नभिन्नप्रकरणेषु तानि व्याख्यातानि । अत्र भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकौमुद्यां कृतानाम् अष्टाध्यायीव्याख्यानां ‘वृत्ति’रिति संज्ञा । एवं कारकप्रकरणम् इति वैयाकरणसिद्धान्तकौमुद्याः प्रकरणे सप्तानां विभक्तीनां सम्बद्धानाम् अष्टाध्याय्याः सूत्राणां चर्चा कृता अस्ति भट्टोजिदीक्षितेन। तत्रादौ “प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा” , एवञ्च “सम्बोधने च” इत्याभ्यां सूत्रभ्यां प्रथमा विभक्तिः केषु केषु सन्दर्भेषु प्रयोक्तव्या ? इति विवेचितमस्ति । एतदधिकृत्य शोधपत्त्रेऽस्मिन् चर्चा क्रियते ।