"षडङ्गो वेदोऽध्येयः ज्ञेयश्च " इति श्रुति वाणी। षडङ्गश्च छन्दः; कल्पः; ज्योतिषम्, निरुक्तम्, शिक्षा, व्याकरणमिति। एतानि चाङ्गानि वेदपुरुषस्य पादादिस्थानरूपत्वेन संस्तूयन्तेऽन्यत्र। तेषूक्तेषु षडङ्गेषु मध्ये "शिक्षाघ्राणमित्यनेन" उदितशिक्षायाः ईश्वरोच्छ्वास निःश्वासात्मकतयोपवर्णितवेदस्य इतराङ्गापेक्षया परममहत्वपूर्णत्वमुद्घोषितम्। एवं रूपा च शिक्षा प्रतिवेदं भिन्ना भिन्ना बहुभिः पूर्वजैरुपदिष्टा। तासु कृष्णयजुषि तैत्तिरीये सुगमज्ञानाय बह्व्यः शिक्षाः सन्ति। तास्वपि महत्वपूर्णत्वेन प्रधानतया नवशिक्षाः। यथा –
प्रथमा व्यासशिक्षा च लक्ष्मीशिक्षा द्वितीयका ।
भारद्वाजि तृतीयाचं शिक्षाऽऽरण्या तुरीयका।।
पञ्चमी शम्भु शिक्षाच षष्ठी चापिशली तथा ।
सप्तमी पाणिनेः शिक्षा अष्टमी कौहली तथा।।
वासिष्ठी नवमी चैवं नवशिक्षाः प्रकीर्त्तिताः ।।।
एतेषु शिक्षाग्रन्थेषु वर्णाः, तेषां स्थानकरणप्रयत्नविशेषाः, वर्णेच्चारणपद्धतिः, वर्णागमः, वर्णविकाराः, वर्णलोपः, स्वरसन्ध्यादिविशेषाः इत्यादयः नैके विषयाः प्रतिपादिताः। ते विषयाः अस्मिन् शेधपत्रे किञ्चित् विव्रियते।