Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 4, Part B

वेदान्तसारग्रन्थे आचार्यसदानन्दयोगीन्द्रेण अनुसृता लेखनशैली

अर्घ्यदीप राय

भारतीयदर्शनशास्त्रे अद्वैतवेदान्तस्य दीर्घपरम्परा विद्यते। यद्यपि आचार्यशंकरः अद्वैतवेदान्तशास्त्रस्य मुख्यप्रतिपादकः इति कथ्यते तथापि तस्य परमगुरुः आचार्यगौडपादः ततः पूर्वम् आचार्यकाशकृत्स्न्यादयः अपि अद्वैततत्त्वम् उक्तवन्तः। शंकराचार्य्यस्य समकालीनाचार्यः मण्डनमिश्रः, अपि च शंकराचार्य्यस्य अन्तेवासिनः पद्मपादाचार्यादयः, तथा प्रकाशात्मयतिः चित्सुखाचार्यः नृसिंहाश्रमः इत्यादयः अद्वैताचार्याः शंकरमतं प्रचारितवन्तः। परन्तु आचार्यसदानन्दयोगीन्द्रेण वेदान्तसारग्रन्थद्वारा अद्वैतसिद्धान्तः अत्यल्पपरिसरे यथा प्रतिपादितः, तथा अन्येन केनापि वेदान्तभाष्यकृता वेदान्तव्याख्याकारेण वा कर्तुं न शक्तः। वेदान्तसारग्रन्थः ब्रह्मसूत्राणां अन्येषां वा वेदान्तग्रन्थानां न टीका, न वा व्याख्यानम्; अपि तु अद्वितीयः ग्रन्थोऽयम् अद्वैतवेदान्तस्य स्वतन्त्रग्रन्थरूपेण प्रसिद्धोऽस्ति। केचन् विद्वांसः इमं ग्रन्थं प्रकरणग्रन्थमिति वदन्ति, किन्तु वेदान्तदर्शनस्य प्रायः सर्वेऽपि महत्त्वपूर्णसिद्धान्ताः अस्मिन् ग्रन्थे उल्लेखिताः सन्ति इत्यतः नायं प्रकरणग्रन्थ इति मन्ये। अस्य ग्रन्थस्य लेखने या अभिनवा लेखनशैली ग्रन्थकृता अनुसृता सैव वर्तमानप्रबन्धे विचार्यते अस्माभिः।
Pages : 75-77 | 192 Views | 71 Downloads


International Journal of Sanskrit Research
How to cite this article:
अर्घ्यदीप राय. वेदान्तसारग्रन्थे आचार्यसदानन्दयोगीन्द्रेण अनुसृता लेखनशैली. Int J Sanskrit Res 2023;9(4):75-77.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.