International Journal of Sanskrit Research
2023, Vol. 9, Issue 4, Part A
संस्कृतसाहित्यस्य प्राचीनमध्यकालीनयोः जैवविविधता तत्संरक्षणञ्च
रा. गुरुप्रसादः
भारतीयदर्शनेषु कस्याश्चिदपि शाखायाः मूलभूतस्य तत्त्वस्य गवेषणे, इदं ज्ञातुं शक्यते यत् समस्तस्य प्रपञ्चस्य आधारस्तम्भाः सन्ति जीवचराचराः। तादृशप्रपञ्चः चिदचिदात्मकः वरीवर्ति। चिच्च सुर-नर-तिर्यक्-स्थावरभेदैः चतुर्धा विभक्तोऽस्ति। तेषु आदिमत्रयम् अन्तिमत्रयाद्भिन्नम्। तस्य आदिमत्रयस्थितिस्तु स्वयं भवति। एवं चित्सु नरस्तु सृष्टौ आदिमसोपाने वरीवर्ति। स च अन्यैः चिद्भिः सह अस्त्यादीन् षड्भावविकारान् प्राप्नोति। पुनश्च स एव नरः परमात्मनः प्रतिबिम्बरूपस्तिष्ठति जगत्यस्मिन्। तथापि एतस्मिन्प्रपञ्चे चिद्विशेषाः स्थावराश्च नरैः सह सम्मील्य एकं साम्राज्यं चालयति इति कथने न कापि न्यूनता। तथाभूतवृक्षस्य, तत्सम्बद्धजैवविविधतामधिकृत्य किञ्चिदिव वृक्षस्य देवतात्वम्, वृक्षारोपणनियमाः, वृक्षारोपणस्य महत्त्वमित्याद्युपशीर्षकेषु शोधप्रबन्धेऽस्मिन् उपपाद्यन्ते।
How to cite this article:
रा. गुरुप्रसादः. संस्कृतसाहित्यस्य प्राचीनमध्यकालीनयोः जैवविविधता तत्संरक्षणञ्च. Int J Sanskrit Res 2023;9(4):29-32.