सर्वसाहित्येषु साहित्यरचनायां व्याकरणमेव मुख्यम्। यथा मुखं विना मनुष्यः किमपि वक्तुं न शक्नोति। प्राणिनः खाद्यग्रहणं कर्तुं न पारयति। तथैव व्याकरणं विना साहित्यग्रन्थाः न चलति एव। इत्यर्थमुच्यते दृ मुखं व्याकरणं स्मृतम्। व्याकरणविषयेषु वाक्यरचनायां कारकस्य प्राधान्यमस्ति। षट्कारकानां कर्तृकारकं मुख्यम्, कर्तृप्राधान्यत्वात्। समाजे तथा साहित्ये कर्ता एव प्रधानो भवति। कर्तानुसारमेव कर्म तथा क्रिया वाक्ये व्यवहरन्ति। वैयाकरणापि कर्तुः प्राधान्यं परिलक्ष्य एव कर्तपदस्य प्रयोग कारिकायामन्तिमे व्यवहारं कृतवान्। अन्त्य प्रयोगेन गुरुत्वहीनः एवं भावना निरर्थक एव। कार्यस्य अन्त्य यदि शुभं भवति तर्हि सर्वं साधु भवति। अन्त्य प्रयोगेन गुरुत्वावहो भवति। धातोः सन्निकृष्टो भवति। अत्र प्रवन्धे कर्तृकारकस्य विषये आलोचनमस्ति।