Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 3, Part D

धर्मशास्त्रप्रतिपादितदिशा द्रव्यशुद्धि-विमर्श: प्रात्यहिकी प्रयोजनीयता च-एका पर्यालोचना

डॉ. ध्रुवजित् शर्मा

भारतवर्षस्य सभ्यताया: संस्कृत्या: च मूलस्रोतस्तु वेदा एव | अयं वेदो धर्मस्य मूलमिति कथ्यते | चतुर्षु वेदेषु ज्ञान-विज्ञान-धर्म-दर्शन-सदाचार-संस्कृति-नैतिक-सामाजिक-राजनैतिकप्रभृतीनां विषयाणां सन्निवेशो भवति | वेदमाश्रित्य एव परवर्त्तिकाले धर्मशास्त्राणां विरचनमभवत् I धर्मशास्त्रं स्मृतिरपि कथ्यते | यदुक्तं‌- “श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृति” इति (मनुसंहिता, २/१०) | मानवानां कर्तव्याकर्तव्ययो: विषये धर्मशास्त्रेषु आलोचना कृता अस्ति | आचार: व्यवहार: प्रायश्चित्तश्च इति विषया: अत्र साधु विवेचिता: | ये खलु नियमा: पालनीया: ते अत्र उपलभ्यन्ते | एवं तदानीन्तनसमाजे विभिन्नानां द्रव्यानां शुद्धि: कथमभवत् इति विषये सुष्ठुतया चर्चा अत्र प्राप्यते | शुद्धि: मानवानां प्रधानविषय: | शुध् धातो: क्तिन् प्रत्ययेन शुद्धि इति जायते | द्रव्यस्य शुद्धि: द्रव्यशुद्धि इति | अस्माकं प्रात्यहिकजीवने ये खलु द्रव्यानां प्रयोगो भवति तेषां शुद्धि: कथं भवति इति विषये यदि ज्ञानं न विद्यते तर्हि कथं अस्माकं प्रगति: सम्भवति कथं वा समाजस्य प्रगति: | अत: धर्मशास्त्रेषु अस्मिन् विषयमधिकृत्य एका आलोचना उपस्थापिता यत्र विभिन्नानां द्रव्यानां शुद्धिर्विषये उच्यते | तत्र तैजसं कांस्यादि भष्मना परिमार्जनेन,मार्तिकं मृन्मयपात्रादि प्रदाहेन, दारवं काष्ठमयादि तक्षणेन तथा वस्त्रादिनां निर्णेजनेन शुद्धिर्भवति इति उच्यते (गौतमधर्मसूत्रम्,१-१-२८) | एवं मनुस्मृतौ याज्ञवल्क्यस्मृतौ च द्रव्यशुद्धिर्विषये कीर्त्तितमस्ति | मनुसंहितायामपि उच्यते यत् कांस्यादिपात्राणां शुद्धि: भष्मना, मृदा जलेन च भवति इति | यदुक्तं-
तैजसानां मणीनाञ्च सर्वस्याश्ममयस्य च |
भष्मनाऽद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभि: || (५/ १११) || इति |
धर्मशास्त्राणि मानवानां आधार एव | धर्मशास्त्रमाश्रित्य एव भारतीयानां जीवनं परिचालितं भवति | मानवसभ्यताया: मूलभूते धर्मशास्त्रे ये खलु नियमा: उल्लिखिता: सन्ति तान् आश्रित्य एव वयम् अस्मिन् समये समुपस्थिता: भवाम: | साम्प्रतं यत् आधुनिकसमाजं आधुनिकजीवनञ्च परिकल्यते तस्य मूलमपि वेद: धर्मशास्त्रञ्च | स्मृतिप्रतिपादित-द्रव्यशुद्धि: अद्यापि समाजे प्रचलिता अस्ति | विशेषत: ग्राम्यसमाजे अद्यापि कांस्यपात्रस्य शुद्धि: भष्मना, ताम्रादि पात्राणां शुद्धि: अम्लेन च करोति इति परिलक्ष्यते | एवं विभिन्नसमये गोमयस्य व्यवहारोऽपि परिदृश्यते | देवपूजने तु गोमयेन एव भूमिशुद्धिर्भवति | यद्वा तद्वा भवतु, वस्तुत: तस्मिन् एव समये द्रव्यशुद्धि: कर्त्तुं या चिन्ता महर्षिणां मनसि उपजायते सा तु सर्वदा आदरणीया एव| प्रात्यहिकजीवने धर्मशास्त्रप्रतिपादित-द्रव्यशुद्धि: कथं प्रचलिता अस्ति अस्य प्रात्यहिकी प्रयोजनीयता इति विषयेऽस्मिन् शोधपत्रिकायामेका समीक्षा कर्त्तुमिच्छते इति शम् |
Pages : 238-241 | 275 Views | 77 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. ध्रुवजित् शर्मा. धर्मशास्त्रप्रतिपादितदिशा द्रव्यशुद्धि-विमर्श: प्रात्यहिकी प्रयोजनीयता च-एका पर्यालोचना. Int J Sanskrit Res 2023;9(3):238-241. DOI: 10.22271/23947519.2023.v9.i3d.2133

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.