Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 3, Part D

गोकुलदर्शने ईश्वरतत्त्वम्

हरिहरदासः

दर्शनशब्दः आत्मसाक्षात्कारार्थं प्रयुक्तः । सरहस्यमये निगूढतमेऽन्धकारेऽस्मिन् प्रपञ्चे तत्त्वमार्गप्रदर्शकं ज्ञानविशेषं विशेषप्राप्तिप्रयोजकं दर्शनमेव शास्त्रशब्देन व्यवह्रियते । "शास्ति च" "त्रायते च" "शंसति च" इत्यादिभिः शास्त्रात्मकत्वाद्दर्शनशब्दः सिद्धः । भारतीयाः सततं तत्त्वज्ञानार्जने निरता इति सर्वे जानन्ति । ते शान्तचित्ताः जितेन्द्रियाः दिव्यचक्षुषोऽखिलं पदार्थज्ञानं करतलामलकवत् प्रत्यक्षीकुर्वाणाः विचारविवेकशीलाश्च भूत्वा मानवसमुदायस्य श्रेयसे कल्याणकामनया च यानि तत्त्वानि, यांस्च सिद्धान्तान् बुद्धियुक्तसहितान् ज्ञानप्राप्तिसाधनभूतान् आविर्भावयामासुः, तानि दर्शनशब्देन व्यवह्रियन्ते । तेषां तपस्सम्भूतायाः धिषणायाः निखिलानां जागतिकानां पदार्थानां मूलतः आलोचनापूर्वकः तत्त्वज्ञानप्राप्तयै युक्तिपूर्वकश्च यः प्रयत्नः साधितः स एव दर्शनशब्दवाच्यो भवति । अस्मिन् प्रसंगेऽत्र गोकुलदर्शने ईश्वरसारांशः दिङ्मात्रं प्रदर्श्यते ।
Pages : 211-214 | 238 Views | 98 Downloads


International Journal of Sanskrit Research
How to cite this article:
हरिहरदासः. गोकुलदर्शने ईश्वरतत्त्वम्. Int J Sanskrit Res 2023;9(3):211-214.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.