संस्कृतभाषायाः व्याकरणेषु मुख्यं पाणिनीयव्याकरणं विद्यते। पाणिन्युत्तरत्तरकालिकाः वैयाकरणाः तं पाणिनीयव्याकरणपद्धतिम् अनुकुर्वन्ति। अतः संस्कृतव्याकरणेषु मेरूदण्डवद्विराजते पाणिनिः। तं महामुनिमाधारीकृत्य संस्कृतवैयाकरणानां विभागाः कर्तुंशक्यन्ते, व्याकरणशास्त्रस्य पाणिनिपूर्वकालिकालिकाः वैयाकरणपरम्परा, पाणिनीयव्याकरणपरम्परा, पाणिन्युत्तरकालिकाः पाणिनीय-वैयाकरणपरम्परास्चेति त्रिधाविभक्तुं शक्यन्ते। पाणिनिः पूर्वाचार्याणाम् आशयमङ्गीकृत्य नूतन वैयाकरणपद्धतिं प्रणीतवान्, ततः व्याकरणस्य यावत्यः शाखाः पल्लविताः, तासां सर्वासां मूलम्पाणिनीयव्याकरणमेव विद्यते। अतः व्याकरणशास्त्रस्य ऐतिहासिके अध्ययने पाणिनिः केन्द्रबिन्दुरूपेण संस्कृतवैयाकरण-परम्परायाः विभागःक्रियते।