तुल्यास्यप्रयत्नं सवर्णमिति सूत्रस्य कोऽभिप्रायः। अनेन स्थानस्य प्रकल्पना कथं विहिता आसीदिति विषयेऽस्मिन् शोधलेखने प्रस्तूयते । प्रथमतः सूत्रस्य कोऽर्थः कस्माद्धातोः शब्दानां निष्पत्तिर्जायते इत्यस्मिन् विषये प्रतिभाति । तुल उन्माने इत्यस्मात्धातो नौर्वयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्य-प्राप्यवध्यानाम्यसमसमितसंमितेषु ४-४-९१1 इति सूत्रेण तुल्यार्थे यत् प्रत्यये तुल्यः शब्दो निष्पद्यते। समानः सादृश्यार्थो वास्य । परमत्र केन सह तुल्य इत्याकांक्षायां येषां वर्णानां समुच्चारणकाले आस्येन सह तुल्यो भवति तेषां वर्णानां सवर्णत्वमुपबोधो जायते । अथवा ताल्वाद्युच्चारणस्थानन्तथा आभ्यान्तरप्रयत्नस्याभेदेन सम्बन्धो भवति तेषां वर्णानामेव सवर्णसंज्ञेति ज्ञायते ।