सर्वदर्शनसङ्ग्रहे माधवाचार्येण बौद्धदर्शनेन सह अन्येषां भारतीयदर्शनानां प्रतिपादनं कृतम्। सिद्धान्तानां विवेचनक्रमे माधवाचार्येण प्रोच्यते- ‘बौद्धानां मते अन्वयव्यतिरेकेण व्याप्तिज्ञानमसम्भवम्।’ बौद्धैः विधिद्वयम् एतदर्थं न मन्यते, यतोऽन्वय-व्यतिरेकाभ्यां समीपवर्तिनाम् उदाहरणानां वर्तमानकाले ज्ञानं न भवेत्, किन्तु कालान्तरे देशान्तरे च विद्यमानानां पदार्थानां व्याप्तिर्भवितुं नार्हति। कदाचित्तत्र धूमाग्न्यो व्यभिचारो भविष्यत्येव। तदुत्पत्या अविनाभावस्य अथवा व्याप्तेर्ज्ञानं भविष्यति। तत्र पञ्चकारणानि आवश्यकानि भवन्ति, तानि पञ्चकारणानि उपलम्भानुपलम्भाभ्यां ज्ञायन्ते। माधवाचार्यानुसारं बौद्धदर्शने प्रमाणद्वयं स्वीक्रियते- ‘प्रत्यक्षानुमानम्’। तत्रापि प्रत्यक्षं निर्विकल्पकं वर्तते, अनुमानमपि द्विविधं स्वीक्रियते- स्वार्थानुमानं परार्थानुमानञ्च। तत्र बौद्धानां चत्वारः सम्प्रदायाः विद्यन्ते- १. माध्यमिकः, २. योगाचारः, ३. सौत्रान्तिकः ४. वैभाषिकश्च। ते क्रमेण सर्वशून्यत्व-बाह्यार्थशून्यत्व-बाह्यार्थानुमेयत्व-बाह्यार्थप्रत्यक्षत्वादीन् आतिष्ठन्ते।