Red Paper
Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.33

Peer Reviewed Journal

International Journal of Sanskrit Research

2023, Vol. 9, Issue 2, Part A

हरिदाससिद्धान्तवागीशमहोदयविरचितस्य मिवारप्रतापनाटकस्य प्रारम्भिकश्लोकद्वयस्य विश्लेषणम्

चन्द्राणीहालदारवणिकः

आधुनिकसंस्कृतसाहित्यस्यान्तरिक्षे हरिदास्सिद्धान्तवागीशमहाशयः एकः प्रकाशमानतारकेव विराजते। सः स्वस्य नानाविधकार्यजीवने अनेकानि संस्कृतकाव्यनाटकानि लिखितवान्। अपिच बहूनि संस्कृतकाव्यनाटकानामुपरि टीकाः अपि रचितवान्। सः प्रथमं सम्पूर्णं महाभारतग्रन्थमतीव प्रयत्नेन खण्डे खण्डे बङ्गानुवादेन ख्यातिं प्राप्तवान्। ढाका इति नगरस्य विद्वत्समाजेन तस्मै सिद्धान्तवागीशः इति उपाधिना सः भूषितः। तस्य लिखितेषु विविधेषु नाटकेषु सुप्रसिद्धं नाटकमेवास्ति मिबारप्रतापम्। मेवारस्य राज्ञः राजपुतराणाप्रतापसिंहस्य देशमातृकां प्रति मधुरस्नेहकथा अस्य नाटकस्य मुख्यविषयः। देशभक्तिमूलके अस्मिन् नाटके षष्ठाङ्काः दृश्यन्ते। नाटके मुख्यचरित्रमस्ति मेवारस्य राजा राजपुतराणाप्रतापसिंहः, मुख्यरसः वीररसोऽपिप्रतिपादितश्च। षष्ठाङ्कविशिष्टनाटकस्य अङ्कानुसारेण नामानि सन्ति क्रमशः – प्रतिज्ञा, कमलाकौशलः, मिवारप्रयाणः, प्रतापपराजयः, वनवासः, द्वात्रिंशद्दुर्गविजयश्च। अन्तिमे गुरुणा आशीर्वाददानेन भरतवाक्येन च नाटकस्यन्तः उद्घोषितः। स्वतन्त्रतायाः वर्षद्वयपूर्वे १९४५ तमे वर्षे उत्तरकोलकातायाः स्टारमञ्चे प्रथमुपस्थापितमिदं नाटकम्। मिवारप्रतापम् इति नामाङ्कितनाटके आरब्धश्लोकद्वयेण मङ्गलाचरणं कृतम्। तत्र प्रथमश्लोकेन परमज्योतिस्वरूपमहादेव्याः स्तुतिः द्वितीयश्लोकेन च उपस्थितानां सभासदस्यानां शुभकामनाः परिलक्ष्यन्ते।
Pages : 39-42 | 542 Views | 185 Downloads


International Journal of Sanskrit Research
How to cite this article:
चन्द्राणीहालदारवणिकः. हरिदाससिद्धान्तवागीशमहोदयविरचितस्य मिवारप्रतापनाटकस्य प्रारम्भिकश्लोकद्वयस्य विश्लेषणम्. Int J Sanskrit Res 2023;9(2):39-42. DOI: 10.22271/23947519.2023.v9.i2a.2712

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.