International Journal of Sanskrit Research
2023, Vol. 9, Issue 1, Part D
सत्यव्रतशास्त्रिणः काव्येषु सांस्कृतिकी राजनीतिकी राष्ट्रियचेतना चेति।
डॉ. धीरेन्द्र कुमार झा
अस्य महोदयस्य संस्कृतपद्यमयं पत्राणां सङ्कलनं 1994 तमे वर्षे पत्रकाव्यमिति नाम्ना प्राकाश्यमभजत। द्वादशवर्षान्तरं नानापत्राणि शास्त्रिणा स्वबन्धुभ्यः प्रेषितानि। तान्यपि प्राकाश्यं भजेरन्निति धिया संकलनं पत्रकाव्यस्य द्वितीयभागरूपेण प्रकाशितम्। एतेषु पत्रेषु कुशलपरिप्रश्नाद्यतिरेकेण नाना शास्त्रीयाः विषया परामृष्टाः ये विदुषां विनोदाय कल्पेरन्। मध्ये मध्ये व्याकरणदृष्ट्या अर्थदृष्ट्या वा केचन विशिष्टाः प्रयोगाः समाश्रिताः तद्व्याख्यानाय तत्र तत्र टिप्पणयो ऽपि समायोजिताः सूत्रवार्तिकाद्युद्धरणपुरःसरं कोषाप्तवाक्याद्युद्धरणपुरस्सरं च।
How to cite this article:
डॉ. धीरेन्द्र कुमार झा. सत्यव्रतशास्त्रिणः काव्येषु सांस्कृतिकी राजनीतिकी राष्ट्रियचेतना चेति।. Int J Sanskrit Res 2023;9(1):239-242.