Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 1, Part D

सौन्दर्यलहरीग्रन्थे उपदिष्टस्य श्रीयन्त्रस्य अङ्कनं, अस्य महत्वोपपादनम् च

सुरेन्द्रचन्द्र त्रिपाठी

एकनिष्ठाद्वैतवादिजगद्गुर्वादिशङ्कराचार्यविरचित सौन्दर्यलहरीग्रन्थस्य बाह्यपरिपाटी द्वैतवादमङ्गीकरोतीति प्रतीयते यतः तत्र उभयोः शिवशक्तयोः वर्णनमुपलभ्यते । वस्तुतः तत्र अभेद्यः कल्प्यते-शिवं चित्छक्तेः पार्वतीमानन्दशक्तेः च परिप्रकाशं मत्वा । शिवोपासकाः यथा निर्विकारब्रह्मोपासनया मोक्षं प्राप्नुवन्ति तथैव कौलपरम्परया शाक्तोपासकाः अमृतत्वं लभन्ते; परन्तु शाक्तमार्गः आसुफलप्रदः । मन्त्रयन्त्रतन्त्राणामुपयोगेन साधकाः आत्मज्ञानं लब्ध्वा दुःखत्रयात् प्रमुच्यन्ते जन्ममरणचक्रात् निष्क्रम्यन्ते च । महर्षिपतञ्जलिना निर्दिष्ट अष्टाङ्गयोगाध्वानः प्रायतः सर्वैरेव अनुसृयते, अस्य मार्गस्य सहजोपलब्धित्वात्च अस्यमार्गस्य शरीरस्थैर्यसाधनकारणात् । योगाङ्गे कियत्परिमाणपटुताप्राप्तेः परं समधिकोन्नतिकल्पे तन्त्रसाधनस्य आवश्यकता वर्तते । अष्टाङ्गयोगस्य उत्तराङ्गे संयमं प्राप्नुं तन्त्रसाधनारताः सिद्धयोगिनः अनतिकाले पराशक्तिसन्निविष्टाः सन् निर्वाणमधिगच्छन्ति । तन्त्रसाधनाय वा संयमाय वा यन्त्रस्य उपयोगं सिद्धम् । अभीप्सितार्थसिद्ध्यर्थं बहूनि यन्त्रणि सन्ति, ते यथा - श्रीयन्त्रम्, गायत्रीयन्त्रम्, सरस्वतीयन्त्रम्, गीतायन्त्रम्, गणेशयन्त्रम्, इत्यादिनि ।
एतेषु श्रीयन्त्रस्य महत्वं सर्वैः अनस्वीक्रीयते । अस्य यन्त्रस्य निर्माणं, अस्योपरि ध्यानं गुरुरङ्घ्रिपद्मे उपविश्य कुर्यादिति पण्डिताः मन्यन्ते । सन्दर्भेऽस्मिन् सौन्दर्यलहरीग्रन्थानुक्रम्य अस्य यन्त्रस्य निर्माणविधिः प्रदत्तः ।
Pages : 233-238 | 266 Views | 87 Downloads
How to cite this article:
सुरेन्द्रचन्द्र त्रिपाठी. सौन्दर्यलहरीग्रन्थे उपदिष्टस्य श्रीयन्त्रस्य अङ्कनं, अस्य महत्वोपपादनम् च. Int J Sanskrit Res 2023;9(1):233-238.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.