International Journal of Sanskrit Research
2023, Vol. 9, Issue 1, Part C
कौटिलीयार्थशास्त्रदृष्ट्या पश्चिमबङ्गीय-आउशग्रामस्थितस्य छोडाग्रामस्य जनपदत्वविचारः
डॉ. स्वपनमालः
सर्वोत्कृष्टे संस्कृतसाहित्ये बहुविधाः ज्ञानविधायकशाखाः विद्यन्ते। तद्यथा – वैदिकसाहित्यम्, पुराणसाहित्यम्, लौकिकसाहित्यम्, स्मृति-अर्थशास्त्रात्मकसाहित्यम्, अर्वाचीनसाहित्यादिनि। तेषु साहित्यविभाजनेषु उल्लेखयोग्यरूपेण महामतिकौटिल्यप्रणीतम् अर्थशास्त्रमन्यतमम्। अर्थशास्त्रमिति ग्रन्थः बहुपूर्वे प्रणीतः सन् साम्प्रतिककालेऽपि अस्य ग्रन्थस्य गुरुत्वं सर्वत्रैव स्वीक्रियते। अर्थशास्त्रे प्रतिफलिताः समाजव्यवस्था, राष्ट्रव्यवस्थादयः इदानीन्तनकाले देशे विदेशे च अङ्गीक्रियन्ते। अर्थशास्त्रे यथा राष्ट्रनिर्माणपद्धतिः, राष्ट्रशासनपद्धतिः, प्रजानां कर्तव्यम्, अमात्यनियोगः इत्यस्मिन् विषये आलोचनमस्ति तथैव प्रजानां कृते तथा चतुराश्रमेषु चतुर्वर्णेष्ववस्थितानां जनानां कृते नूतनं जनपदनिर्माणम्, पुरातनजनपदे पुनः जनस्थापनमित्यादिविषये प्रायोगिकवास्तवोचितभावनात्मकदिशानिर्देशः प्राप्यते। इत्यस्मात् कारणात् पश्चिमबङ्गीयपूर्ववर्धमानमण्डलान्तर्गतस्य आउशग्रामारक्षाञ्चलस्य छोडाग्रामे केन प्रकारेण, कथं वा अर्थशास्त्रानुमोदितः जनपदनिवेशः सम्यक् प्रतिफलितः इति क्षेत्रसमीक्षात्मकविषयो भवत्यस्य शोधपत्रस्य सारः।
How to cite this article:
डॉ. स्वपनमालः. कौटिलीयार्थशास्त्रदृष्ट्या पश्चिमबङ्गीय-आउशग्रामस्थितस्य छोडाग्रामस्य जनपदत्वविचारः. Int J Sanskrit Res 2023;9(1):154-158.