Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 1, Part C

पाटीगणिते भास्कराचार्यस्य योगदानम्

अनिलकुमारदेसायिः

भारतीयगणकपरम्परायां भास्कराचार्यस्य उन्नतं स्थानं वर्तते । स च भास्कराचार्यः गणकप्रपञ्चे “ज्योतिर्गगनभास्करः” इत्येव विख्यातः । भारतीयगणकपरम्परायां प्रथमः भास्करः, द्वितीयः भास्करः इति द्वौ भास्करौ आस्ताम् । तयोर्मध्ये “भास्कराचार्यः” इति विख्यातः भास्करः द्वितीयः भास्करः भवति । अस्य भास्कराचार्यस्य ग्रन्थद्वयम् इदानीम् उपलभ्यते । एकस्तु सिद्धान्तशिरोमणिसंज्ञकः सिद्धान्तग्रन्थः । द्वितीयस्तु करणकुतूहलाख्यः करणग्रन्थः । तत्र सिद्धान्तशिरोमणेः चत्वारः भागाः सन्ति – लीलावती, बीजगणितं, ग्रहगणितं, गोलाध्यायश्चेति । तत्र प्रथमभागे लीलावत्यां पाटीगणित-रेखागणितयोः सम्बद्धाः विचाराः सन्ति । लीलावत्यां भास्कराचार्येण प्रतिपादिताः पाटीगणितीयसिद्धान्ताः एव पाटीगणितविषये भास्कराचार्यस्य योगदानं भवति । अस्मिन् शोधपत्‍त्रे मया लीलावतीग्रन्थे पाटीगणितविषये भास्कराचार्येण किं किं योगदानं दत्तम् ? इति विषयमधिकृत्य सङ्क्षेपेण विलिख्यते ।
Pages : 145-153 | 265 Views | 79 Downloads
How to cite this article:
अनिलकुमारदेसायिः. पाटीगणिते भास्कराचार्यस्य योगदानम्. Int J Sanskrit Res 2023;9(1):145-153.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.