International Journal of Sanskrit Research
2023, Vol. 9, Issue 1, Part B
उत्तररामचरितनाटकस्य अलंकारस्योपरि तुलनामूलकपर्यालोचना
चन्द्राणीहालदारवणिकः
संस्कृतालंकारिकाः काव्यमीमांसाशास्त्रं अलंकारशास्त्ररूपेण स्वीकृतवन्तः। यतः ते अलंकारशब्दं व्यापकार्थे ग्रहणं कृतवन्तः। तेषां मतानुसारे अलंकारयुक्तौ शब्दार्थौ काव्यं भवति । आचार्येण दण्डिना अलंकारः काव्यस्य शोभाकरधर्मरूपेण अभिहितः । दण्डिना काव्यशोभाकरधर्मरूपेण यत् उक्तम्, तत् काव्यसौन्दर्यभिन्नं न किमपि भवितुमर्हति । येन आचार्यवामनेनापि काव्यशोभाकरं धर्मं सौन्दर्यम् इति अभिहितम् । अस्मात् कारणात् काव्यसौन्दर्यविचारशास्त्रम् अलंकारशास्त्ररूपेण परिगण्यते । काव्यं ग्राह्यमलंकारात् अर्थात् अलंकाराय काव्यं सहृदयं निकषा उपादेयम्। अत्र वामनमते अलंकारशब्देन न केवलं अनुप्रास-उपमाद्यलंकाराः, अपि तु वामनदण्डीप्रमुखालंकारिकानां मते साधारणवाक्यात् कवेः वाक्यस्य स्वातन्त्रमस्ति इत्यस्य वोधः भवति । अतः वीरराघवः तस्य ‘भवभूतिभावतलस्पर्शिनी’ इति टीकायाम् उत्तररामचरितस्थ भवभूतेः अन्तर्निहित भावान् पर्यालोचनां कृत्वा विभिधान् अलंकारान् आलोचयति, यथा- व्यतिरेक-रूपक-विभावनादयः। परन्तु हरिदाससिद्धान्तवागीशमहाशयः तस्य सर्वार्थवोधिनी इति टीकायां वीरराघवात् भिन्नदृष्ट्या उत्तररामचरितस्थितश्लोकस्य अलंकारान् अतीवमनोग्राहीरूपेण आलोचनां करोति।
How to cite this article:
चन्द्राणीहालदारवणिकः. उत्तररामचरितनाटकस्य अलंकारस्योपरि तुलनामूलकपर्यालोचना. Int J Sanskrit Res 2023;9(1):101-104.