विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् ।
अमित्रादपि सद्वृत्तं अमेध्यादपि काञ्चनम् ।।
वादे वादे जायते तत्त्वबोधः । भारतवर्षे पुराकालादेव वाक्स्वतन्त्रतायाः सौविध्यं दृष्टं बहुधा । अस्माकं जीवनलक्ष्यं किं भवेत्, दुःखनाशं कथं कुर्यात्, सुखोपलब्धेः साधनानि कानि कानि इति जिज्ञासायाः समालोचनं भारतवर्षे नैके पण्डिताः अनैकधा प्रतिपादितवन्तः । तस्माद् भिन्नदर्शनपरम्परानां समुदयो जायते भारतवर्षे । विचारेषु भेदाः सन् अपि दर्शनानां ह्रदयं तु आसीत् दुःखनिवारणनिदानम् । तस्य एव चर्चा समाधानञ्च भारतीयदर्शनेषु दृश्यते । सुखजिज्ञासा एव दर्शनानां विकासमार्गे सोपानम् आसीत् । सुखम् अर्थात् अनुकुलवेदनीयम् । सुखं दुःखञ्च मनसो विकारे स्तः । अतः मनसा सम्बन्धत्वात् दर्शनानां मनोवैज्ञानिकपक्षतोऽपि महत्त्वं दृश्यते । वस्तुतस्तु दर्शनानि अस्मान् जीवनम् उपभोक्तुं शिक्षयन्ति । तेषु चार्वाकाः अपि अस्मान् जीवितुं पाठयति । दर्शनमिदम् अनर्थमूलाम् अन्धविश्वासधारां खण्डयित्वा सुखवादं प्रतिपादयति । अतएव दुःखनिवृत्त्यर्थम् अनर्थपरिहर्तव्यम्,सत्कार्यं कर्तव्यम्, सुखं भोक्तव्यम्, सुखं विस्तारितव्यं जनहिताय स्वकर्मणा इति मतिरासीत् चार्वाकानाम् । परन्तु दर्शनमिदं सर्वदा पण्डितैः अवहेलितं वेदाप्रामाण्यत्वात् । यतोहि भारतीयसंस्कृतौ अध्यात्मवादस्य गहनप्रभावः दृश्यते । अत एव मोक्ष-परलोकादेः अस्वीकरणे अस्माकं मनसि तावत् शंका जायते चार्वाकदर्शनस्य आचारमीमांसायाः सत्यतामुपरि । परन्तु चार्वाकदर्शनेष्वपि राष्ट्रप्रेम, परोपकारः, सदाचारादयः विद्यन्ते । तेषां नैतिकमूल्यानामेव संग्रहणं मया अत्र विहितम् ।