वेदाङ्गत्वेन शिक्षा-कल्प-छन्द-निरूक्त-व्याकरणं इति षड्सु अङ्गेषु वैदिकवाङ्मय शिक्षास्वाधाय सुरक्षा निमित्तं छन्दशास्त्रं स्वकीयं प्राकष्यं प्रकामं विद्यते। पाणिनीयशिक्षां छन्द:शास्त्रं वेदस्य पादावित्युच्यते। ऋग्यजुस्सामार्थर्वाख्येषु चतुर्षु वेदेषु गायत्र्यनुष्टुप्-त्रिष्टुप्-बृहती-पंत्त्यादीनि छन्दासिं प्रयुज्य बहवो मन्त्रा: रचिता:। तत्तच्छन्दसि अक्षर-गण-पादादिव्यवस्थाया: नीति: निर्धारिताऽस्ति। एवमेव अनुष्टुप्, वसन्ततिलका, मन्दाक्रान्ता, वंशस्थम्, उपजाति:, स्त्रगधरा इत्याादीनि छन्दासिं आश्रित्य कालिदास-भास-भट्टि-भारवि-Þीाहर्षप्रमुखै:महाकविभि: प्रसिद्धानि काव्यानि प्रणीतानि। एतेषां छन्दसां विषयेऽपि नियमा: विविधै: छन्दशास्त्रकारै: प्रणिता: वर्तन्ते।
एतच्छन्द:शास्त्रं द्विधा विभक्तुं शक्यते। वैदिकं लैकिकं च। अनुष्टुप्-जगती-बृहती-पङ्क्ति-त्रिष्टुप्प्रभृतीनि सप्त वैदिकच्छन्दासिं। लैकिक वसन्ततिलका-शार्दुलविक्रीडित-स्त्रगधराप्रभृतीनि। वैदिकच्छन्द: शास्त्रमधीत्य सांख्यायनश्रौत्रसूत्र-निदानसूत्र-ऋग्प्रातिशाख्यानि च प्रसिद्धानि। तत्र मन्दाक्रान्ताया: लक्षणोदाहरणं नीचै: प्रस्तुयते।