Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 6, Part A

कृष्णकेशवषडङ्गिनः समुद्रशतकम् : एकमध्ययनम्

डॉ. सुनेली देई

२०२० ख्रीष्टाब्दे उत्कलीयकविना ड. कृष्णकेशवषडङ्गिना विरचितं समुद्रशतककाव्यं क्रमेण एकं लघुकाव्यं शतककाव्यं गीतिकाव्यञ्च भवति । काव्येऽस्मिन् आत्मपरिचयात्मकेन पुष्पिकाश्लोकद्वयेन सह १०१ श्लोकाः सन्ति । उत्कलीयकविः ड. कृष्णकेशवषडङ्गी १९७८ ख्रीष्टाब्दे जुन् मासस्य अष्टादशदिनाङ्के कटकमण्डलस्य वैदेश्वरग्रामे जन्मग्रहणमकरोत् । तस्य पितुः नाम प्रवक्तारत्नः स्वर्गतः पण्डितः जयदेवः षडङ्गी मातुः नाम च श्रीमती मनोजमञ्जरी षडङ्गी । कविः कृष्णकेशवः षडङ्गी सम्प्रति कटकमण्डलस्य वाङ्कीनामके स्थाने सर्वकाराधीनस्थ-व्लक्-पशुरोगचिकित्सा-अधीकारीभावेन कार्यं करोति । कविः ड. कृष्णकेशवषडङ्गी स्वर्गतः रघुनाथषडङ्गी- स्वर्गतः जयदेवषडङ्गी-स्वर्गतः प्रफेसर् दोलगोविन्दशास्त्री-प्रफेसर् गोपीनाथमहापात्रः- पण्डितप्रबोधकुमार-मिश्रमहाभागेभ्यः संस्कृतविषये शिक्षालाभं कृतवान् । कविः ड. कृष्णकेशवषडङ्गी अद्यावधि चतुर्द्दशग्रन्थान् रचितवान् ।समुद्रशतककाव्यस्य मुख्यरसः शान्तरसः भवति । काव्यस्य प्रारम्भे आशीर्वादात्मकमङ्गलाचरणं दृश्यते । काव्येऽस्मिन् पौराणिक-प्राकृतिककथातत्त्वमाश्रित्य समुद्रस्य निन्दाप्रशंसे उभे वर्णिते । अत्र कविना उपजाति-वंशस्थविलं-वसन्ततिलका-शिखरिणी-मालिनी-स्रग्धरा-पृथ्वी-शार्द्दूलविक्रीडितादि- छन्दांसि प्रयुज्य श्लोकाः निर्मिताः ।काव्येऽस्मिन् श्लोकैः सह तेषामन्वयाः उत्कलार्थाः आंग्लोभाषा-हिन्दीभाषाभ्यामनूदितार्थाः च प्रदत्ताः । अन्योक्ति-अर्थान्तरन्यासाद्यलङ्कारमाध्यमेन कविना समाजस्य मानवेभ्यः बहवः सुशिक्षाः प्रदत्ताः ।
Pages : 05-09 | 295 Views | 84 Downloads
How to cite this article:
डॉ. सुनेली देई. कृष्णकेशवषडङ्गिनः समुद्रशतकम् : एकमध्ययनम्. Int J Sanskrit Res 2022;8(6):05-09.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.