Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 5, Part C

आदर्शसमाजनिर्माणे श्रीमद्भगवद्गीतायाः विविधशिक्षाक्षेत्रेषु उपादेयत्वम्

राधेश्याम वारिक

शोधनिबन्धस्य प्रस्तावनायामादौ गीतायाः महत्वं प्रदर्श्य तस्य प्रयोजनत्वं चोल्लिखितम् । ततः परं शिक्षाशब्दस्य व्युत्पत्तिः तथा तस्याः स्वरूपविषये च नैकाः विद्बांसः प्रोक्तवन्तः । एवं शोधनिबन्धेऽस्मिन् साम्प्रतिककाले शिक्षाक्षेत्रेषु गीतायां महत्वं तथा आदर्शसमाजव्यवस्थायाः निर्माणाय समाजस्य युवछात्राणां कृते श्रीमद्भगवद्गीतायाः भूमिका अत्यन्तावश्यकी अस्य शोधनिवन्धस्य प्रतिपाद्यमानमुख्यविषयरुपेण चर्चिताः । अत्र चतुवर्गफलप्राप्तिरेव जीवनस्य मूललक्ष्यं प्रतिपादयति । प्रस्थानत्रयेषु स्मृतिप्रस्थाने गीता महत्वपूर्णं स्थानं लभते। भगवतः श्रीकृष्णस्य-मुखारविन्दात्सार्वकालिकानां, सार्वदेशीयानाश्च तथ्याणामुद्धारणायं विश्वविख्याता अस्ति गीतेयम्।गीतायां सामाजिकशिक्षा, सांस्कृतिकशिक्षा, निष्कामयोगिशिक्षा, मोक्षमार्गानुगामिनीशिक्षाश्च वर्तन्ते। तथैव बहुमनीषिभिः विधिवत् गीताध्ययनेन भिन्नां भिन्नां शिक्षां प्राप्यन्ते । गीतायां गुरुपरम्परा, धर्माधर्मविषयाः, नीतिनैपुण्यता, पापपुण्यादिविषयाः, कर्तव्याकर्तव्यज्ञानं, मोक्षस्वरूपं, उपनिषद्प्रमाणम्, ब्रह्मविद्या, मायायाः स्वरूपं तस्याः निराकरणम् इत्यादयः विषयाः सन्ति । अतः गीतामाहात्म्ये उक्तम् – गीता मे परमो गुरुः । भगवद्गीता शिक्षकछात्रयोर्मध्ये नैतिकशिक्षामूलकं तत्त्वं तथा व्यवहारः परिदृर्शते । तथैव व्यक्तित्वविकाशः, सांस्कृतिकमूल्यशिक्षा, बौद्धिकमूल्यशिक्षा, अनुशासनप्रधानशिक्षा, मनप्रेरकशिक्षा, आध्यात्मकशिक्षादयः अत्रेव प्रशिक्ष्यन्ते । आधुनिककालेऽस्मिन् छात्राणां बौद्धिकविकाशाय श्रीमद्भगवद्गीता एकः महान् ग्रन्थः अस्ति। । अतः सोऽयं विचारः अस्य प्रबन्धस्य मुख्यविषयो भवति।
Pages : 141-146 | 259 Views | 69 Downloads
How to cite this article:
राधेश्याम वारिक. आदर्शसमाजनिर्माणे श्रीमद्भगवद्गीतायाः विविधशिक्षाक्षेत्रेषु उपादेयत्वम्. Int J Sanskrit Res 2022;8(5):141-146.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.